पृष्ठम्:कादम्बरीकथासारः.pdf/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९७
कादम्बरीकथासारः


उपेत्य गन्धर्वपतेः सकाशा
कैलासनामा किल सैौविदलः।
अनामयप्रश्नपुरःसरं म
मिताक्षरां वाचमवोचदेवम् ॥ ११० ॥

गन्धर्वराट् स्वामिनि ! मन्मुखेन
प्रेमतरं त्वाममुमर्थमाह ।
वत्से ! मदुक्तं न शृणोति वत्सा
तेहात्स्वयि ब्रह्मणि तिष्ठतीति ॥ १११ ॥

न युक्तमेतत्सखि ! साम्प्रतं ते
स एव धर्मो गुरुणा यदुक्तम् ।
तां दुष्प्रतिज्ञामपहाय तस्मा-
कल्याणि ! धर्मस्य मते स्थिता स्याः ॥ ११२ ॥

इत्थं सखीं सपदि मद्वचनादुदेति
सम्प्रेषिता तरलिकाऽपि मयाऽद्य तेन ।
पश्चाद्भवानुपगतो भुवमस्मदीया
मेवं निगद्य विरराम तपस्विनी सा ॥ ११३ ॥

इत्थ तस्याश्चरितमखिलं शान्तमाकण्ये दनः
तस्मिन्दिव्यप्रसवचरिते तल्पभगे निषण्णः ।
स्मारंस्मारं निजविधिबलं पत्रलेखां च सेनां
चन्द्रापीडो विरसमनयज्जाग्रदेव त्रियामाम् ।। ११४ ॥

इति श्रीमत्सकलविद्याधरचक्रवर्तिचरणारविन्दशेखरस्य
श्रीराजराजसूनोः श्रीत्रिविक्रमस्य कृतौ कादबरी
कथासारसंग्रहाख्ये कव्ये नवमः सर्गः ।