पृष्ठम्:कादम्बरीकथासारः.pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

iv

jV वैशम्पायननामानमादाय विहगोत्तमम् । आगच्छेति प्रतीहारीमादिदेश विशां पतिः ।। सा तथेति प्रतीहारी प्रणिपत्य महीपतिम् । प्रविश्यान्तःपुरं सद्यस्तमादायाययौ पुनः ।। (त्रिविक्र. का. क. सा. I ५३-५६.) उपरि निर्दिष्टसारद्वयपालोचनेनेदमवगम्यते यत् अभिनन्दापेक्षया त्रिविक्रमो मूलकयां यथावदनुवदति इति । अत्र अयमपरो विशेषः सहृदयैरवगन्तव्योऽवशिष्यते यत् शूद्रको भोजनसमनन्तरमेव प्रातरूपायनीकृतस्य शुकस्य आनयनं किमित्याज्ञापयति इति । प्रातरेव उपायनीकृतस्य शुकस्य आलापश्रवणकौतुकमेव केवलमत्र निदानमिति न मन्तुमुचितम् । अनितरसाधारणेनापि समुचितकारणान्तरेण भाव्यम् । शूद्रको हि महाराजः नागरिकोत्तमः । नागरिकस्येदं लक्षणं यत् अभ्यवहारानन्तरं शुकसारिकाप्रलापनव्यापारानुविधानं नाम । अमुमर्थं कामसूत्रप्रणेता वात्स्यायनोऽपि संवदति । तद्यथा नागरिकवृत्ताध्याये वात्स्यायनः :-- "भोजनानन्तरं शुकसारिकापलापनव्यापाराः ; लावकुकुटमेषयुद्धानि ; तास्ताश्च कलाक्रीडाः ; पीठमर्दविदृषकायत्ता व्यापाराः ; दिवाशय्या गृहीतप्रसाधनस्य अपराहे गोष्टीविहाराः" इति । यद्यपि शूद्रकस्य प्रातरेव उपायनीकृतस्य शुकस्य आलापश्रवणकौतुकं स्यात् अथापि वात्स्यायनोक्तदिशा नागरिकमेव वृत्तमनुस्मरन् शुकानयनमाज्ञापयामा- सेति मन्तुमुचितम् । अपिच :- 16 'अथ मुहूर्तादिव वैशम्पायनः प्रतीहार्या गृहीतपञ्जरः.... कन्चुफिना अनुगम्यमानो राजान्तिकमाजगाम ।