एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९२
श्री त्रिविक्रमविरचितः
तप्त्वा तपस्तीव्रतरं क्रिया
लब्द्वा गिरीशस्य पुनः प्रसादम् ।
पुरा रतिः काममिवानुरूपं
कल्याणि ! कन्तं तव लप्स्यसे त्वम् ॥ ८२ ॥
इति ब्रुवन्मृत्युकृतोद्यमां मा
मादाय दोर्यामपि पुण्डरीकम् ।
खमुत्पपात क्षणलक्ष्यमूर्तिः
सर्प गरुत्मानिव दिव्यवेगः ॥ ८३ ॥
महेन मां मीलितपद्मनेत्रां
सन्भ्याङ्गनां रागवतीं विहाय ।
अस्तंगतं भानुमिव प्रकाशः
कपिञ्जलोप्यन्वगमु जगाम ॥ ८४ ॥
तस्मिन्दिवं तेन सह प्रयाते
चिरंतनस्नेहवशेन शीघ्रम् ।
मृत्योरपि प्राणसमः स तस्मा
दत्यन्तमासीद्यथितं मनो मे ॥ ८५ ॥
शोकेन खिन्नमवनौ लुठन्तीं
व्याकीर्णकेशां परिधूसराम् ।
आश्वसयन्मामसितेक्षणा सा
विचेव बुद्धिं विषयेण मूढाम् ॥ ८६ ॥
अच्छोदनान्नः सरसस्तटेऽस्मिन्
तया पुनस्तामरसायताक्ष्या ।
शोकेन कामं युगकोटिकल्पां
नीतावशिष्टां रजनीमनैषम् ।। ८७ ।।