पृष्ठम्:कादम्बरीकथासारः.pdf/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९०
श्री त्रिविक्रमविरचितः

जननं मरणं लोके सहजं सर्वदेहिनाम् ।
एतावदेव दुःखे मे मामनालिञ्जय गच्छसि ॥ ६२ ॥

कथं लिप्येत्कथं चुम्बेत्कथं मामालपेदिति ।
कियत्संकल्प्य संप्राप्त हा ! धिग्जीवितमस्थिरम् ! ॥ ६३ ॥

त्वया विरहिता कान्त ! नाहं जीवितुमुत्सहे ।
कूपदण्डेन सहिता मजन्ती नौरिवार्णवे ।। ६४ ॥

तव कोपेऽपि मधुरं अनुषं वक्ष्यमाननम् ।
अनालोक्य महाश्वेता क्षण जीवेत्कथं वद ॥ ६५ ॥

अहं त्वयैव जीवामि त्वन्तु नाथ ! मया विना ।
तटितिष्ठति मेघेन मेघोऽपि ततिं विना ॥ ६६ ॥

आविस्मितं मुख सौम्यमर्धापाङ्गनिरीक्षणम् ।
साभिप्रायं च वचनं कस्मिन् जन्मनि लभ्यते ।। ६७ ॥

हा ! दिवं गतशब्देन जीवितं न स्वयं गतम् ।
इदं प्रलपितं सर्वे करुणं कथयिष्यति ॥ ६८ ॥

कपिञ्जलः कथं न त्वां निरुणद्धि दिवङ्गतम्।
ज्ञात्वाऽपि मदवस्थां हा! त्वत्तोयं खलु निष्टुरः ॥ ६९ ॥

मृग्यो दर्भान्परित्यज्य बाष्पपर्याकुलेक्षणः।
शोकार्ता विलपन्तीं मां पश्यन्त्यभिमुख स्थिताः ॥ ७० ॥

पनीय गतच्छाया म्लअनपकेरुहानना ।
चक्रवाकरुतेनातो रोदितीव मया सह ॥ ७१ ॥

निर्हरास्राविलमुखाः भृश्नोद्भतबाहवः।
कीर्णमेघकचाः शोकादाक्रोशन्तीव पर्वताः ॥ ७२ ॥