विप्रकर्षादविस्पष्टामाकर्यं स्दनीं गिरम् ।
किमिद हेति संभ्रान्ता तमुद्देशमुपागमम् | । ४१ ।।
रे चन्द्र ! जन्मचाण्डाल ! हा किमाचरितं त्वया ।
हा दुराचार ! कन्दर्प !! ददेवं त्वया कृतम् ॥ ४२ ॥
हा सरस्वत्यनाथाऽसि पुण्डरीकं विना कृता ।
उपक्षहीनेव स हन्त ! शोच्यां दशां मता ॥ ४३ ॥
असहायोऽसि धर्म ! त्वं हा हा निष्टुरारिणा ।
पुण्डरीकेण रहितो जनोऽयमिव साम्प्रतम् ॥ ४४ ।।
तव कामाभितप्तम्य हन्त मृत्युरुपागतः ।
अकालाशनिपातोऽयं ग्रीष्मार्तस्य वनस्पतेः ॥ ४५ ॥
तपश्च ब्रह्मचर्यं च ज्ञानं चापि सहायुषा ।
महाधेतापराख्येन सर्वे कालेन संहृतम् ॥ ४६ ॥
त्वामदृष्ट्वा महाते ! पुण्डरीको दिवं गतः ।
इति निष्टुरमश्रौषं कोशन्तं हा ! कपिञ्जलम् ॥ ४७ ॥
तस्य पापेन वचसा हृदि सन्ताडिता भृशम् ।
अपतं भुवि निःसंज्ञा स्वर्गाद्भटैव देवता ॥ ४८ ॥
मूर्छितां धरणी ठे शयानां कीर्णकुन्तस्त्रम् ।
गाढे तरलिकाऽऽRिञ्जय चक्रन्द कुर्ीव माम् ।। ४९ ॥
तथैवाश्वस्थमनाऽहं शनैः संज्ञामुपागमम् ।
मातङ्गकछुषा मन्दं प्रसादमिव निम्नगा ॥ ५० ॥
निर्विकल्पोऽथ मोहोऽपि न तथा मामबाधत ।
यथासंज्ञा पुनर्लब्धा दुःसहा तीव्रवेदना ॥ ५१ ॥
पृष्ठम्:कादम्बरीकथासारः.pdf/११२
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८८
श्री त्रिविक्रमविरचितः