कपिञ्जले दयेवं दीनमदालिपूर्वकम् ।
प्रविश्य कबुकी कश्चिदिदं वचनमब्रवीत् ।। ७४ ॥
त्वमस्वस्थशरीरेति भृशमकर्य दुःखिता ।
देवसेनामिवेन्द्राणी देवी द्रष्टुमिहागता ॥ ७५ ॥
श्रुत्वा तद्वचनं ऋ ॐी तापमाप कपिञ्जलः ।
पर्जन्यरवभाकी फ्रुवं पन्नगो यथा ।। ७६ ।।
दनैः किमत्र बहुभिर्वचसां अपवैः
1भूयोऽपि ते चरणयोः प्रणमामि मूर्ती ।
प्राणाः त्वयि प्रियसखस्य ममेयुदीर्य
पश्चाद्विषण्णहृदयः शनकैरयासीत् ।। ७७ ।।
कालदिता मघवतः प्रथमा सुवृष्टि
दवेन भूमिमिव तीव्रतरेण दधाम् ।
कामेन तप्तहृदयां श्रवणामृत वा-
गाश्वासयत्परममुष्य दयाप्त माम् ॥ ७८ ॥
अम्बा ततः सभयमेत्य कृपावती मां
पृष्ट पुनः पुनरनामयमादरेण ।
वामालका बलरिपोरिव वैजयन्तः
मम्नलिहं निजगृहं पुनराससाद ॥ ७९ ॥
इति श्रीमत्सकलविद्याधरचक्रवर्तिचरणारविन्दशेखरस्य
श्रीराजराजसूनोः श्रीत्रिविक्रमस्य कृतौ कादम्बरी-
कथासारसंग्रहास्ये काव्ये अष्टमः सर्गः
1. धरातं चरण इति भातृका ।