पृष्ठम्:कादम्बरीकथासारः.pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८१
कादम्बरीकथासारः


दिवि मारुतवेगेन शक्न्ते यदि पर्वताः ।
लभन्तां कुत्र विश्रामं लघतूलराशयः ॥ ५२ ॥

समुद्र इव गम्भीरः कुलशैल इवाचलः ।
त्वमेवं चपलः स्यात्चेकस्मिन्पर्वणि मादृशः ॥ । ५३ ॥

के दीना मुनयः शान्ताः कन्दमूलफलाशनाः ।
क च भोगाभिलाषोऽयमशान्तजनसेवितः ॥ ५४ ॥

क योगिनां महानन्दः जलध्यानसमुद्भवः।
क प्राकृताभिनन्द्यानि मन्मथस्पन्दितानि च ।। ५५ ।।

के जटावल्कलवी शान्ता मूर्तिस्तपस्विनाम् ।
स च कन्या महाश्वेता गन्धर्वकुल्मुन्दरी ॥ ५६ ॥

विद्यप्यभरा ज्ञानं भवक्लेशहरं त्वधि ।।
सर्वमेकपदे नष्टमकृतज्ञे कृतं यथा ।। ५७ ।।

इन्द्रियैरभिभूतास्ते शक्राद्या इति शुश्रुमः ।
अतोऽनर्थकरादस्माद्विरम त्वं महामते ! ५८ ॥

एवं ब्रुवन्नं मामाह प्रमृज्य नयते पुनः ।
न त्वं कन्दर्पबाणेन विद्धोऽहमिव मर्मणि ।। ५९ ॥

ज्ञानं चतुर्वर्गफलं विद्या च विनयोत्तरा ।
अभूद्गन्धर्वकन्यायाः तस्याः प्रदर्शनान्मम ॥ ६० ॥

स्वाधीनं यस्य हृदयं यस्य सन्नीन्द्रियाणि वा।
सखे ! स खवळ ते पात्रमुपदेशस्य नेतरः ॥ ६१ ॥

निमीलितेऽपि नयने सैव सर्वाङ्गसुन्दरी ।
सीद्य तिष्ठते महे सखे ! किं करवाण्यहम् ॥ ६२ ।।