पृष्ठम्:काठकोपनिषत्.djvu/९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७३ भाष्यद्वयोपेता २।२।७ य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः । तदेव शुक्रं तद्रह्म तदेवामृतमुच्यते । तस्मिंल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन । एतद्वै तत् ॥ ८ ॥ अग्निथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव । [शांकरभाष्यम्] यत्प्रतिज्ञातं गुह्य ब्रह्म वक्ष्यामीति तदाह-य एष सुप्तेषु प्राणादिषु जागर्ति न स्वपिति । कथम् । कामं कामं तं तमभिप्रेतं स्त्रयाद्य- र्थमविद्यया निर्मिमाणो निष्पादयञ्जागर्ति पुरुषो यस्तदेव शुक्र शुभ्रं शुद्धं तद्रह्म नान्यद्गुह्य ब्रह्मास्ति । तदेवामृतमाविनाश्युच्यते सर्वशास्त्रेषु । किंच पृथिव्यादयो लोकास्तस्मिन्नेव सर्वे ब्रह्मण्याश्रिताः सर्वलोककारणत्वात्तस्य । तदु नात्येति कश्चनेत्यादि पूर्ववदेव ॥ ८ ॥ अनेकतार्किककुबुद्धिविचालितान्तःकरणानां प्रमाणोपपन्नमप्यात्मैकत्व- विज्ञानमसकृदुच्यमानमप्यनृजुबुद्धीनां ब्राह्मणानां चेतसि नाधीयत इति तत्प्रतिपादन आदरवती पुनः पुनराह श्रुतिः-अग्निर्यथैक एव प्रकाशात्मा सन्भुवनं भवन्त्यस्मिन्भूतानीति भुवनमयं लोकस्तमिमं प्रविष्टोऽनुप्रविष्टः । रूपं रूपं प्रति दार्वादिाह्यभेदं प्रतीत्यर्थः । प्रतिरूपस्तत्र तत्र प्रतिरूपवान्दाह्य- भेदेन बहुविधो बभूव । एक एव तथा सर्वभूतान्तरात्मा सर्वेषां भूतानाम- [प्रकाशिका ] अन्ये परमात्मतत्त्वश्रवणविमुखास्त्वद्विसदृशाः शरीरपरिग्रहाय ब्राह्मणादियोनिं प्रतिपद्यन्ते । अन्ये स्थावरभावमनुगच्छन्ति । स्वानुष्ठितय ज्ञादिकर्मेपासनानतिक्रमणेन “रमणीयचरणा:” छा०६।१०।७ " तं विद्या कर्मणी समन्वारभेते ' बृ० ४।४।२ इत्यादिश्रुत्यनुरोधादिति भावः ॥ ७॥ एवं शिष्यं प्ररोचनयाभिमुखीकृत्य प्रकृतमनुसरति । सर्वेषु सुप्तेषु जी- वेषु । कामं कामं, णमुलन्तमिदं संकल्प्य संकल्प्येत्यर्थः । न तु सर्वान्का- मांश्छन्दतः प्रार्थयस्वेति प्रकृताः पुत्रादयः कामशब्देन निर्दिश्यन्ते । अयं चार्थः संध्याधिकरणे ब्र० सू० ३।३।१ भाष्यश्रुतप्रकाशिकयो: स्पष्टः । सं- कल्प्य संकल्प्य स्वच्छन्दानुरोधेन निर्मिमाणः पुरुषो योऽस्तीत्यर्थः । तदेव प्रकाशकं तदेवानन्याधीनममृतमुच्यत इत्यर्थः । शिष्टं स्पष्टम् । नित्यमुक्ता नाममृतत्वसत्त्वेऽपि निरुपाधिकामृतत्वाभावात्तदेवामृतमित्यवधारणस्य नानु- पपत्तिरिति द्रष्टव्यम् । तेनामृतान्तरनिषेधान्मुक्तपरमात्मनोरभेदप्रत्याशा प्रत्युक्ता । अत्रत्यामृतशब्दस्य निरुपाधिकामृतत्राचित्वात् ॥ ८ ॥ एक एवात्मा सर्वेषामहमर्थतयास्त इत्यस्यार्थस्य दुबोधत्वात्तद्दृढी-