पृष्ठम्:काठकोपनिषत्.djvu/९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२।२।२ काठकोपनिषत् १० हसः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दूरोणसत् । नृषद्वरसदृतसद्वयोंमसद्ब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत [शांकरभाष्यम्] स तुनैकशरीरपुरवर्त्येवात्मा किं तर्हि सर्वपुरवर्ती । कथम् - हंसो हन्ति गच्छतीति । शुचिषच्छचौ दिव्यादित्यात्मना सीदतीति । वसवास- यति सर्वानिति । वाय्वात्मनान्तरिक्षे सीदतीत्यन्तरिक्षसत् । होताग्निः । अग्निर्वै होता’ इति श्रुतेः । वेद्यां पृथिव्यां सीदतीति वेदिषत् । “इयं वेदिः परोऽन्तः पृथिव्याः " इत्यादिमन्त्रवर्णात् । अतिथिः सोमः सन्दुरोणे कलशे सीदतीति दुरोणसत् । ब्राह्मणोऽतिथिरूपेण वा दुरोणेषु गृहेषु सीदतीति । नृषन्नृषु मनुष्येषु सीदतीति नृषत् । वरसद्वरेषु देवेषु सीद- तीति । ऋतसदृतं सत्यं यज्ञो वा तस्मिन्सीदतीति । व्योमसद्वयोम्न्या- काशे सीदतीति व्योमसत् । अब्जा अप्सु शङ्खशुक्तिमकरादिरूपेण जायत इति । गोजा गवि पृथिव्यां व्रीहियवादिरूपेण जायत इति । ऋतजा यज्ञाङ्गरूपेण जायत इति । अद्रिजाः पर्वतेभ्यो नद्यादिरूपेण जायत इति । सर्वत्मापि सन्नृतमवितथस्वभाव एव । बृहन्महान्सर्वकारणत्वात् । यदाप्या- दित्य एव मन्त्रेणोच्यते तदाप्यस्यात्मस्वरूपत्वमादित्यस्येत्यङ्गीकृतत्वाद्रा- ह्मणव्याख्यानेऽप्यविरोधः । सर्वव्याप्येक एवात्मा जगतो, नात्मभेद इति मन्त्रार्थ: ॥ २ ॥ [प्रकाशिका] विमुच्यते । जीवदशायामाध्यात्मिकादिदुःखरागद्वेषादिविमुक्त एव सन् “भोगेन त्वितरे क्षपयित्वा संपद्यते " ब्र० सू० ४।१।१९ इति न्यायेन प्रारब्धकर्मावसानेऽर्चिरादिना विरजां प्राप्य प्रकृतिसंबन्धविमक्तो भवतीत्यर्थः । एतन्मन्त्रप्रतिपांघमुक्तस्वरूपमपि परमात्मकमेवेत्यर्थः ॥ १ ॥ पुनरप्यस्य सर्वात्मतामेव प्रथयति-हंसः सूर्यः । शुचौ ग्रीष्मर्तौ सीदतीति शुचिषतेजस्वीति यावत् । वासयतीति वसुर्वायुः । अन्तरिक्षसत्, अन्तरि- क्षगतो वायुः । वेद्यन्तवर्तमान ऋत्विग्विशेषोऽग्निर्वा । दुरोणं गृहं गृहगतो ऽतिथिः । नृप्वात्मतया वर्तमानं, वरेषु देवेषु च तथा वर्तमानं, ऋते सत्य- लोके सीदतीति ऋतसत्, व्योम्नि परमपदे वर्तमानं च प्रत्यक्तत्वम् । अब्जा जलजाः । गोज्जा भूजाः । ऋऽतजा यज्ञोत्पन्नाः कर्मफलभूताश्च सर्गादय इति यावत् । यद्वा चिरकालस्थायितया ऋतशब्दिताकाशजा इत्यर्थः । आद्रिजाः पर्वतजाः । एतत्सर्वं बृहदृतमपरिच्छिन्नसत्यरूपब्रह्मा- त्मकमित्यर्थः ॥ २ ॥