पृष्ठम्:काठकोपनिषत्.djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२।१।३ काठकोपनिषत् येन रूपं रपं रतं' गन्धं शब्दान्स्पर्शाश्च मैथुनान् । एतेनैव विजानाति किमत्र परिशिष्यते । एतद्वै तत् ॥ ३ ॥ स्वप्नान्तं जागरितान्तं चोभौ येनानुपश्यति । [शांकरभाष्यम्] यत एवमथ तस्माद्धीरा विवेकिनः प्रत्यगात्मस्वरूपावस्था- नलक्षणममृतत्वं ध्रुवं विदित्वा । देवाद्यमृतत्वं ह्यध्रुवमिदं तु प्रत्यगात्मस्वरू- पावस्थानलक्षणं “ न कर्मणा वर्धते नो कनीयान् " बृ० ४।४।२३ इति ध्रुवम् । तदेवंभूतं कूटस्थमविचाल्यममृतत्वं विदित्वाध्रुवेषु सर्वपदार्थेष्वनित्येषु निर्धार्य ब्राह्मणा इह संसारेऽनर्थप्राये न प्रार्थयन्ते किंचिदपि प्रत्यगात्मदर्श- नप्रतिकूलत्वात् पुत्रवित्तलोकैषणाभ्यो व्युतिष्ठन्त्येवेत्यर्थः ॥ २ ॥ यद्विज्ञानान्न किंचिदन्यत्प्रार्थयन्ते ब्राह्मणाः कथं तदविगम इति । उच्यते—येन विज्ञानस्वभावेनात्मना रूपं रसं गन्धं शब्दान्स्पर्शाश्च मैथु- नान्मैथननिमित्तान्सुखप्रत्ययान्विजानाति विस्पष्टं जानाति सर्वो लोकः । ननु नैवं प्रसिद्धिर्लोकस्यात्मना देहादिविलक्षणेनाहं विजानामीति । देहादिसं- घातोऽहं विजानामीति तु सर्वो लोकोऽवगच्छति । न त्वेवम् । देहादि- संघातस्यापि शब्दादिस्वरूपत्वाविशेषाद्विज्ञेयत्वविशेषाञ्च न युक्तं विज्ञातृ- त्वम् । यदि हि देहादिसंघातो रूपाद्यात्मकः सन्रूपादीन्विजानीयाद्वाह्या अपि रूपादयोऽन्योन्यं स्वं स्वं रूपं च विजानीयुः । न चैतदस्ति । तस्मा- द्देहादिलक्षणांश्च रूपादीनेतेनैव देहादिव्यतिरिक्तनैव विज्ञानस्वभावेनात्मना विजानाति लोकः । यथा येन लोहो दहति सोऽग्निरिति तद्वत् । आत्मनोऽ विज्ञेयं किमत्रास्मॅिंल्लोके परिशिष्यते न किंचित्परिशिष्यते । सर्वमेव त्वा त्मना विज्ञेयम् । यस्यात्मनोऽविज्ञेयं न किंचित्परिशिष्यते स आत्मा सर्वज्ञः । एतद्वै तत् । किं तद्यन्नचिकेतसा पृष्टं देवादिभिरपि विचिकित्सितं धर्मादिभ्योऽन्यद्विष्णोः परमं पदं यस्मात्परं नास्ति तद्वा एतदधिगतमित्यर्थः। अतिसूक्ष्मत्वाद्दुर्विज्ञेयमिति मत्वैतमेवार्थे पुनः पुनराह-स्वमान्तं स्वप्त- [ प्रकाशिका ] मैथुनान्मिथुननिमित्तकसुखविशेषानित्यर्थः । निःशेषं येनैव साधनेन जानातीत्यर्थः । “तद्देवा ज्योतिषां ज्योतिः” बृ० ४।४।१६ इति रूपादिप्रकाशकानामिन्द्रियाणां तदनुगृहीतानामेव कार्यजनकत्वादिति भावः। तत्पूर्वं प्राप्यतया निर्दिष्टं विष्णोः परमं पदम् । एतद्वै, एतदेवैतन्मन्त्रप्र- तिपाद्यात्मस्वरूपमेवेत्यर्थः ॥ ३ ॥ सकलं स्वाप्तप्रपञ्चं जाग्रत्प्रपञ्चं च मन आदीन्द्रियभावमापन्नेन येन परमा-