पृष्ठम्:काठकोपनिषत्.djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

भाष्यद्वयोपेता २।१।२ पराचः कामाननुयन्ति बालास्ते मृत्योर्यन्ति विततस्य पाशम् । अथ धीरा अमृतत्वं विदित्वा ध्रुवमधुवेष्विह न प्रार्थयन्ते ॥२॥ [शांकरभाष्यम्] " यच्चाप्नोति यदादत्ति यच्चाति विषयानिह । यच्चास्य संततो भावस्तस्मादात्मेति कीत्येते " ॥ इत्यात्मशब्दव्युत्पात्तस्मरणात् । त प्रत्यगात्मानं स्वं स्वभावमैक्षदपश्य- त्पश्यतीत्यर्थः । छन्दसि कालानियमात् कथं पश्यतीत्युच्यते-आवृत्तचक्षु- रावृत्तं व्यावृत्तं चक्षुः श्रोत्रादिकमिन्द्रियजातमशेषविषयाद्यस्य स आवृत्त- चक्षुः स एवं संस्कृतः प्रत्यगात्मानं पश्यति । न हि बाह्यविषयालोचन- परत्वं प्रत्यगात्मेक्षणं चैकस्य संभवति । किमर्थं पुनरित्थं महता प्रयासेन स्वभावप्रवृत्तिनिरोधं कृत्वा धीरः प्रत्यगात्मानं पश्यतीत्युच्यते-अमृतत्व- ममरणधर्मत्वं नित्यस्वभावतामिच्छन्नात्मन इत्यर्थः ॥ १ ॥ यत्तावत्स्वाभाविकं परागेवानात्मदर्शनं तदात्मदर्शनस्य प्रतिबन्धकारण- मविद्या तत्प्रतिकूलत्वाद्या च पराक्ष्वेवाविद्योपप्रदर्शितेषु दृष्टादृष्टेषु भोगेषु तृष्णा ताभ्यामविद्यातृष्णाभ्यां प्रतिबद्धात्मदर्शनाः पराचो बहिर्गतानेव कामान्काम्यान्विषयाननुयान्ति अनुगच्छन्ति बाला अल्पप्रज्ञास्ते तेन कार- णेन मृत्योरविद्याकामकर्मसमुदायस्य यन्ति गच्छन्ति विततस्य विस्तीर्णस्य सर्वतो व्यासस्य पाशं पाश्यते बध्यते येन तं पाशं देहेन्द्रियादिसंयोगवि- योगलक्षणम् । अनवरतजन्ममरणजरारोगाद्यनेकानर्थत्रातं प्रतिपद्यन्त इत्यर्थः । [ प्रकाशिका ] यद्वा पराङ्पराङ्मुखानि भूत्वा विषयानेव पश्यन्तीत्यथः । पराङ्पश्यतीति पाठे लोकाभिप्रायमेकवचनम् । इदृशेऽपि लोकस्वभावे नद्याः प्रतिस्रोतःप्रवृत्त इव कश्चित्पुरुषधौरेयः प्रत्यगात्मप्रवणोऽप्यस्तीत्याह-प्रत्यञ्च- मात्मानं पश्यतीत्यर्थः । छान्दसं परस्मैपदम् । अत एव वर्तमानार्थे लडु- पपत्तिश्च । चक्षुःशब्द इन्द्रियमात्रपरः स्वस्वविषयव्यावृत्तेन्द्रियो मुमुक्षुरि- त्यर्थः ॥ १ ॥ अल्पप्रज्ञा बाह्यान्काम्यमानान्विषयानेवावगच्छन्ति विस्तीर्णस्य संप्ता- रस्य बन्धनं यान्तीत्यर्थः । यद्वा विततस्य सर्वत्राप्रतिहताज्ञस्य मृत्योर्य- मस्य पाशं यान्तीत्यर्थः । अथशब्दः प्रकृतविषयार्थान्तरपरिग्रहे । धीमन्तः प्रत्यगात्मन्येव ध्रुवममृतत्वं विदित्वेह संसारमण्डले ध्रुवेषु पदार्थेषु कमपि न प्रार्थयन्ते प्रत्यक्त्वज्ञस्य सर्वं जिहासितव्यमिति भावः । परात्मन सर्वजीवगताहंतास्पदत्वेन मुख्याहमर्थत्वात्प्रत्यक्त्वमस्तीति द्रष्टव्यम् ॥२॥