पृष्ठम्:काठकोपनिषत्.djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१।३।३ काठकोपनिषत् ५२ बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥ ३ ॥ इन्द्रियाणि हयानाहुर्विषयास्तेषु गोचरान् । आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ॥ ४ ॥ यस्त्वविज्ञानवान्भवत्ययुत्तेन मनसा सदा । तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः ॥ ५ ॥ [शांकरभाष्यम्] रथः । सर्वं हि देहगतं कार्यं बुद्धिकर्तव्यमेव प्रायेण । मनः संकल्पविकल्पादिलक्षणं प्रग्रहं रशनां विद्धि । मनसा हि प्रगृहीतानि श्रोत्रादीनि करणानि प्रवर्तन्ते रशनयेवाश्चा ॥ ३ ॥ इन्द्रियाणि चक्षुरादीनि हयानाहू रथकल्पनाकुशलाः शरीररथाकर्षण सामान्यात् । तेष्वेवेन्द्रियेषु हयत्वेन परिकल्पितेषु गोचरान्मार्गात्रूपादी- न्विषयान्विद्धि । आत्मेन्द्रियमनोयुक्तं शरीरेन्द्रियमनोभिः सहितं संयुक्त- मात्मानं भोक्तति संसारीत्याहुर्मनीषिणो विवेकिनः । न हि केवलस्यात्मनो भोक्त्तृत्वमस्ति बुद्धयाद्युपाधिकृतमेव तस्य भोक्तृत्वम् । तथा च श्रुत्यन्तरं केवलस्याभोक्तत्वमेव दर्शयति-ध्यायतीव लेलायतीवेत्यादि । एवं च सति वक्ष्यमाणरथकल्पनया वैष्णवस्य पदस्यात्मतया प्रतिपत्तिरुपपद्यते नान्यथा स्वभावानतिक्रमात् ॥ ४ ॥ तत्रैवं सति यस्त बद्धयाख्यः सारथिरविज्ञानवाननिपुणोऽविवेकी प्रवृत्तौ च निवृत्तौ च भवति यथेतरो रथचर्यायामयुक्त्तेनाप्रगृहीतेनास- माहितेन मनसा प्रग्रहस्थानीयेन सदा युक्तो भवति तस्याकुशलस्याबुद्धि [प्रकाशिका] राधिष्ठातारं रथिनं विद्धि । स्पष्टोऽर्थः । बुद्धिशब्दिताध्यव सायाधीनत्वाद्देहप्रवृत्तेस्तस्याः सारथित्वमिति भावः । प्रग्रहो रशना ॥ ३ ॥ स्पष्टोऽर्थः । तेष्विन्द्रियेषु हयत्वेन निरूपितेषु गोचरान्मार्गञ्च्छब्दा दिविषयान्विद्धीत्यर्थः । रथसारथिहयप्रग्रहत्वेन निरूपितानां शरीरेंद्रियम नोबुद्धीनामभावे रथित्वेन रुपितस्योदासीनस्याऽऽत्मनो गमनरूपलौकिक- वैदिकक्रियाकर्तृत्वमेव नास्तीत्येतत्सुप्रसिद्धत्वेन दर्शयति । आत्मशब्दो देहपर । मन:शब्दस्तु तत्कार्थबुद्धेरप्युपलक्षकः । पूर्वमन्त्रे बुद्धेरपि सार- थित्वेन निर्दिष्टत्वात् । भोक्ता कर्तृत्वभोत्क्तत्वादिमानित्यर्थः । न हि केव- लस्यात्मनः कर्तृत्वं भोक्तृत्वं वाऽस्तीति भावः ॥ ४ ॥ शरीरादे रथत्वादिरूपणस्य प्रयोजनमाह—लोके हि समीचीनसारथि प्रग्रहवतोऽश्वा वशीकृता भवन्ति । एवं सारथिप्रग्रहत्वेन रूपितयोर्विज्ञान-