पृष्ठम्:काठकोपनिषत्.djvu/७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१।३।१ [प्रकाशिका]हावच्छिन्नत्वयोः सर्वगते परस्मिन्ब्रह्मण्यसंभवात् । छायातपनि- र्दिष्टतम:प्रकाशत्वयोरपि जीवपरमात्मपरत्वेऽसंभवात् । बुद्धिजीवपरत्वे तु तस्य सर्वस्याप्युपपत्तेः । कर्मफलभोगकरणे कर्तृत्वोपचारेण पिबन्ताविति निर्देशस्या- प्युपपत्तेः । बुद्धिजीवपरत्वमेवास्य मन्त्रस्य युज्यत इति चेत् । एवमेव हि गुहां प्रविष्टाविति सूत्र आशङ्कय संख्याश्रवणे सत्येकस्मिन्संप्रतिपन्ने द्विती- याकाङ्क्षायां प्रतिपन्नजातिमुपजीव्य व्यक्तिविशेषपरिग्रहे बुद्धिलाघवाद्विजा- तीयपरिग्रहे जातिव्यक्तिबुद्धिद्वयापेक्षया गौरवात्संप्रतिपन्नजातीयपरिग्रही युक्तः । लोकेऽप्यस्य गोद्वितीयोऽन्वेष्टव्य इत्यादिषु तथा दर्शनात् । तथा च ऋतपानलिङ्गावगतजीवस्य द्वितीयश्चेतनत्वेन तत्सजातीयः परमात्मैव ग्राह्यः । परमात्मनः प्नयोजककर्तृतया पिबन्ताविति निर्देशस्यापि संभवात् । अन्तःकरणे स्वतन्त्रकर्तत्वप्रयोजककर्तृत्वयोरभावेन पिबन्ताविति निर्देशस्य सर्वथाऽप्यसंभवात्, सर्वगते ब्रह्मणि सुकृतसाध्यलोकवर्तित्वस्यापि संभवात्। अस्मिन्नेव प्रकरणे गुहाहितं गह्वरेष्ठमिति परमात्मनो गुहाप्रवेशश्रवणेन गुहां प्रविष्टावित्यस्याप्युपपत्तेः । छायातपशब्दाभ्यां किंचित्सर्वज्ञयोः प्रति- पादनसंभवाज्जीवपरमात्मपर्यंवसायिमन्त्र इति समर्थितत्वान्न त्वदुक्तशङ्का- वकाशः । " तयोरन्यः पिप्पलं स्वाद्वति " मु० ३।१।१ इति स त्वमिति पैङ्गिरहम्यब्राह्मणानुसारेण द्वा सुपर्णेति मन्त्रस्य बुद्धिजीवपरत्वात् । “इय दामननात् ' ब्र० सू० ३।३।३४ इत्यधिकरणे ऋतं पिबन्ताविति मन्त्रस्य द्वा सुपर्णेति मन्त्रैकार्थस्य प्रतिपादितत्वादयमपि मन्त्रो बुद्धिजीव- पर इत्यस्याः शङ्कायाः सूत्रकृतैव निराकृतत्वान्नास्माभिः संनह्यते । किं च जीवे गुहाप्रवेशस्य बुद्ध्युपाधिकतया स्वतः प्रवेशवत्या बुच्द्या सह जीवस्य गुहां प्रविष्टाविति गुहाप्रवेशवर्णनं न संगच्छते । उपष्टम्भकाधीनगुरुत्वशा- लिनि सुवर्णे गुरुसुवर्णमिति व्यवहारसंभवेऽप्युपष्टम्भकसुवर्णे गुरुणी इति व्यवहारम्यादर्शनात् । अत एव परपक्षे सूत्रानुसारेणास्य मन्त्रस्य जीवपर- मात्मपरतया कृतं योजनान्तरमप्यनुपपन्नम् । “ अनेन जीवेनात्मनाऽनुप्र- विश्य ” छा० ६।३।२ इति श्रुत्यनुसारेण परमात्मनो जीवभावेनानुप्रवे- शेऽपि परमात्मरूपेणानुप्रवेशाभावाज्जीवपरमात्मानौ गुहां प्रविष्टाविति निर्देशानुपपत्तेः । जीवभावेन ब्रह्मणः संसारमभिप्रेत्य ब्रह्म संसरतीति व्यव- हारसत्वेऽपि जीवब्रह्मणी संसरत इति व्यवहारसंभवात् । “ जीवेशावा- भासेन करोतेि माया चाविद्या च स्वयमेव भवति " नृ० सिं० ता० ९