पृष्ठम्:काठकोपनिषत्.djvu/५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१॥२॥१५ काठकोपनिषत् ३६ सर्वे वेदा यत्पदमामनन्ति तपासि सर्वाणि च यद्वदन्ति । यदिच्छन्तो ब्रह्मचर्यंचरन्ति तत्ते पद संग्रहेण ब्रवीम्योमित्येतत् । [शांकरभाष्यम् इत्येवं पृष्टवते मृत्युरुवाच पृष्टं वस्तु विशेषणान्तरं च विवक्षन् सर्वे यत्पदं पदनीयं गमनीयमविभागेनामनन्ति प्रतिपादयन्ति तपांसि सर्वाणि च यद्वदन्ति यत्प्राप्त्यर्थानीत्यर्थः । यदिच्छन्तो ब्रह्मचर्य गुरुकुल- वासलक्षणमन्यद्वा ब्रह्मप्राप्त्यर्थं चरन्ति तत्ते तुभ्यं पदं यज्ज्ञातुमिच्छसि संग्रहेण संक्षेपतो ब्रवीमि । ओमित्येतत् । तदेतत्पदं यद्बुभुत्सितं त्वया यदेतदोमित्योंशब्दवाच्यमोंशब्दप्रतीकं च ॥ १५ ॥ [प्रकाशिका] चतुर्णा चशब्दाभावेऽपि.सामानाधिकरण्यं दृष्टमपि तु पुरुषद्वयप्र- क्ष्नपरत्वमेव । एवमिहापि यच्छब्दान्वितचशब्दद्वयाभावेऽपि न तत्सामानाधि- करण्यमवगम्यते । अस्तु वा भवद्भक्तरीत्या सामानाधिकरण्यम् । अथापि प्रश्नप्रतिवचनयोर्द्वितीयव्याख्यायामुपेयप्रश्नमुपेत्रन्तर्भावादुपायस्याप्यन्तर्भूत- त्वात् "त्रयाणामेव चैवमुपन्यासः प्रक्षक्ष्च ।" ब्र०सू० १॥४॥६ इतिसूत्रनिर्दि- ष्टोपायोपेतृप्रश्नप्रतिवचनम्य सुघटिततया क्षतेरभावात् । " तत्ते पदं संग्र- हेण ब्रवीमि " ' क० १॥२॥१५ इति पदशब्दितप्राप्यस्यैव प्रतिवचनप्रति- पाद्यत्वस्य स्पष्टं प्रतीतेरित्यलं प्रसक्तानुप्रसक्त्या । प्रकृतमनुसरामः ॥१४॥ एव पृष्टा मृत्यु : “ न जायते ॥म्रियत " इत्यादिना विस्तरेण प्रतिपिपादयिषुरिदानीं श्रोतुरादरातिशयसिद्धयथै प्राप्यवैभवं प्रकाश- यन्संग्रहोक्त्तिं प्रतिजानीते --पद्यते गम्यत इति । व्युत्पत्त्या पदशब्द प्राप्यस्वरूपवाची । यत्स्वरूपं सर्वे वेदाः साक्षात्परम्परया वा प्रतिपादय- न्तीत्यर्थः । अनेनास्या उपनिषदः प्रजापतिविद्यावत्परिशुद्धात्मस्वरूपविषय- तैवास्तु “ न जायते म्रियते वा विपश्चित् " क० १।२।१८ " हन्ता चेन्मन्यते हन्तुम् " क० १।२।१९ इति मन्त्रद्वयस्य परिशुद्धात्म स्वरूपपरत्वस्य संप्रतिपन्नत्वात् । “ अणोरणीयान् ” इति मन्त्रद्वयस्यापि "अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् । "भ.गी. २॥१७ " निर्व्या- पारमनाख्येयं व्याप्तिमात्रमनूपमम् । ” इति स्मृतिवचनाभ्यां सर्वान्तःप्रवे- शयोग्यातिसूक्ष्मतया व्यांपकतया च प्रतिपादिते प्रत्यगात्मन्युपपन्नत्वात् । "सूक्ष्मत्वात्तदाविज्ञेयं दूरस्थं चान्तिके च तत् । ” भ. गं. १३|१९ इति गीतानुसारेण " आसीनो दूरं ब्रजति शयानो याति सर्वत :" क० १॥२॥२१ इति मन्त्रस्यापि तत्रैव युक्तत्वात् । “ग्रसिष्णु प्रभविष्णु च"