पृष्ठम्:काठकोपनिषत्.djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३९ भाष्यद्वयोपेता १॥२॥१४ [प्रकाशिका]स्यापि सामानाधिकरण्यस्यैव प्रतीतेः । यदि तत्र धर्माधर्मविलक्षणं कालत्रयविलक्षणं यच्चेति चशब्दद्वयमश्रोष्यत तदाऽन्यत्रशब्दयुगद्वयस्य स्वरसतः प्रतीतं सामानाधिकरण्यं पर्यत्यक्षत । अतः प्रक्रमरीत्यनुसारि प्रतीतसामानाधिकरण्यभङ्गे कारणाभावादन्यत्र धर्मादन्यत्राधर्मादित्ययम- प्यंशः प्राप्यब्रह्मपर एवास्तु । ननु "नायमात्मा प्रवचनेन लभ्यो न मेधया " क० १॥२॥२३ इत्युपायविर्शनेनोषप्रतिवचनदर्शनेनोपायविशेषप्रश्न- स्याप्यत्रैवान्तर्भाव्यतया चशब्दाभावेऽप्यन्यत्रशब्दयुगद्वयस्य सामानाधि करण्यं भञ्जनीयमिति चेन्न । प्रतिवचनेऽपि “ नायमात्मा प्रवचनेन लभ्य:" क० १॥२॥२३ इति प्रीतिरूपापन्नज्ञानैकलभ्यत्वलक्षणप्राप्यधर्मविशेषोप- देशस्यैव दर्शनेनोपायप्रधानप्रतिवचनादर्शनात् । “ नाशान्तमानसो वाऽपि प्रज्ञानेनैनमाप्नुयात् " क० १॥२॥२४ इति । “ यस्त्वविज्ञानवान्भवत्य- मनस्कः सदाऽशुचिः । न स तत्पदमाप्नोति ” क० १॥३॥७ इति प्रति- वचनदर्शनादन्यधर्मादन्यत्रेति प्रसिद्धोपायविरोधिप्रश्न इत्यपि किं न स्यात् । प्राप्यस्य प्रीतिरूपापन्नज्ञानैकोपायत्वकथनेनोपाये प्रीतिरूपापन्नत्वरूपवि- शेषः फलिष्यतीति चेत्फलतु नाम । नैतावतोपायस्य प्रक्ष्नप्रतिवचनप्रधान- विषयत्वं वक्तव्यमित्यस्ति किं देवदत्तभवनमिति प्रक्ष्नस्य वा बहुचम्पकालं- कृतनिष्कुटं द्वारोपान्तलिखितशङ्खचक्रपद्मकं देवदत्तभवनमिति तत्प्रश्नप्रति- वचनस्य वा निष्कुटद्वारोपान्तप्रधानकत्वं कश्चिदभ्युपैति । अतोऽन्यत्र धर्मादन्यत्राधर्मादित्यप्यन्यत्रशब्दचतुष्टयसामानाधिकरण्यलिप्सया धर्माधर्म- साध्यविलक्षणब्रह्मविषय एवायमिति चेत् । अत्रोच्यते--असौ देवदत्तादु- त्पन्नो न भवत्यपि तु यज्ञदत्तादिति वाक्यं श्रुत्वा देवदत्तादन्यं यं पश्यसि तं मे ब्रूहीति प्रवृत्तस्य प्रतिवचनस्य देवदत्तान्यज्ञदत्तपरत्ववल्लक्षणया देव- दत्तपुत्रान्यप्रश्नपरत्वस्याप्रतीतेः । तद्वत्कर्मसाध्यं न ब्रह्मापि तु ज्ञानसाध्य मित्युपदेशानन्तरप्रवृत्तस्य धर्मादन्यत्रेति प्रक्ष्नस्य धर्मविलक्षणज्ञानरूपोपाय- परत्वमेव युक्तं न तु धर्मशब्दलक्षणया धर्मसाध्यविलक्षणब्रह्मपरत्वम् । तथाऽधर्मादन्यत्रेत्यत्रापि सामानाधिकरण्येनोपायपरत्वमेव निश्चितम् । काल- त्रयपरिच्छिन्नविलक्षणवाचक उपरितनान्यत्रशब्दद्वये कालत्रयपरिच्छिन्नो- पायपरामर्शसंभवात्सामानाधिकरण्यभङ्गेन प्राप्यपरत्वमेव युक्तम् । नीलो दीर्घो इस्वो रक्तः इत्युक्त्ते नीलदीर्घपदयोरविरोधात्सामानाधिकरण्यं सिध्यति । रक्तहस्वयोश्च परस्पराविरोधात्सामानाधिकरण्यं सिध्यति । न तु