पृष्ठम्:काठकोपनिषत्.djvu/५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१|२|१४ काठकोपनिषत् ३४ [प्रकाशिका]विद्याप्रतिपन्नमुपास्यं प्राप्यभूतं परिशुद्धस्वरूपमेव। अतस्तस्यापि प्राप्यनिर्देशकत्वमेव। वस्तुगत्या तस्य प्राप्तुरभिन्नत्वात्प्राप्तुः प्रत्यगात्मनश्चेति भाष्य न विरोत्स्यते । अत एव प्रथमं तावत्प्राप्तु: प्रत्यगात्मनः स्वरूप- माह--न जायते म्रियते वा विपश्चिदिति । उत्तरभाष्यमप्युपपद्यते । न हेि न जायते म्रियते वा विपश्चिदितिमन्त्रप्रतिपाद्यस्य विपश्चिच्छब्दितप- रिशुद्धस्वरूपस्य प्रातृरूपतोपपत्ति । " आत्मेन्द्रियमनोयुक्तं भोतेत्याहुर्म- नीषिणः । " क. १।३॥४ " विज्ञानसारथिर्यस्तु मन:प्रग्रहवान्नरः । क १॥३॥९ सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्” क. १|३|९ इति मन्त्रप्रतिपाद्यस्यैव प्राप्तृंरूपत्वात् । तथैव “विशेषणाच्च' ब्र० सू० १|२|१२ इतिसूत्रभाष्ये प्रतिपादितत्वात् । अतः प्राप्यप्राप्त्रैकाधिकरण्यनिर्देश- परे गुहामन्त्रे छायातपावित्यत्राज्ञत्ववाचिना छायाशब्देन निर्देशो दृष्टो न तु विपश्चिच्छब्देन । अतो यथोक्त एवार्थः । अयं मन्त्रो व्यासायै: " त्रयाणाम् " ब्र. सू. १॥४॥६ इति सूत्रे विवृतः । धर्म उपायः धर्मा- दन्यत्र प्रसिद्धोपायविलक्षणं इत्यर्थः । अधर्मो धर्मेतर उपेयः । अधर्मा- दन्यत्र प्रसिद्धसाध्यविलक्षणं फलामित्यर्थः । अस्मादिति बुद्धिस्थस्तत्साधको विवक्षित । स एवोपेता स हि प्रसिद्धोपेतविलक्षणः साधकावस्थायामितर- फलविरक्तत्वात्फलदशायामाविर्भूतगुणाष्टकविशिष्टस्वरूपत्वाच्च । कृता कृतादिति धर्मादीनां विशेषणं कृताकृताद्धर्मादेर्विलक्षणम् । अन्यत्र भूताच्च भव्याच्च धर्मादेर्विलक्षणं यदित्यर्थः । इत्येकां व्याख्यां . कृत्वा तस्मिन्पक्षे तु कृताकृताद्भूताच्च धर्मादन्यत्र तादृशाद्धर्मादन्यत्र तादृशादस्मा- ञ्चान्यत्रेत्यन्यत्रशब्दत्रयेणोपपत्तावन्यत्र भूताभ्दव्याच्चेत्यन्यत्रशब्दवैयर्थ्येम् । उपायस्य कालत्रयपरिच्छिन्नतया तत्र कालत्रयपरिच्छिन्नवैलक्षण्यानन्वयं च पर्यालोच्य यद्वेत्यादिनाऽपरा व्याख्या कृता तदुच्यते । यद्वा धर्मादधर्मा- च्चान्यत्रेत्युपासनप्रक्ष्न: । पुण्यपापरूपसाधनविलक्षणत्वादुपासनस्य कृता- कृताद्भताद्भच्चान्यत्र कालादिति यदिति कालापरिच्छिन्नमुपेयं पृष्टम् । प्रश्न उपेतुरपि चेतनस्य नित्यत्वात्प्राप्यान्तर्भावाच्च । तत एव तस्यापि तन्त्रेण प्रक्ष्नस्तदन्तर्गतं च प्राप्तुः स्वरूपमिति वक्ष्यते । तत्र यत्तच्छब्दौ त्रितयपराविति भावयति । न च तस्मिन्नपि पक्षे प्रष्टव्यद्वयपरत्वाश्रयण- मपि ल्किष्टमेवान्यत्र धर्मादन्यत्राधर्मादिति प्रक्रमस्थान्यत्रशब्दद्वयसामाना- धिकरण्यवत्, अन्यत्रास्मात्कृताकृतादन्यत्र भूतादित्युपरितनान्यत्रशब्दद्वय-