पृष्ठम्:काठकोपनिषत्.djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२९ भाण्यद्वयोपेता १|२|८ न नरेणावरेण प्रोक्त एष सुविज्ञेयो बहुधा चिन्त्यमानः । अनन्यप्रोक्त गतिरत्र नास्त्यणीयान्ह्यतर्क्यमणुप्रमाणात् ॥८॥ नैषा तर्केण मतिरापनेया प्रोक्ताऽन्येनैव सुज्ञानाय प्रेष्ठ । [शांकरभाष्यम्] कस्मात् नहि नरेण मनुष्येणावरेण प्रोक्तोऽवरेण हीनेन प्राकृ- तबुद्धिनेत्येतदुक्त एष आत्मा यं त्वं मां पृच्छसि । न हि सुष्ठु सम्यग्विज्ञेयो वि- ज्ञातुं शक्यो यस्माद्वहुधास्ति नास्ति कर्ताकर्ता शुद्धोऽशुद्ध इत्याद्यनेकधा चेि- न्त्यमानो वादिभिः । कथं पुनः सुविज्ञेय इत्युच्यते-अनन्यप्रोत्तेऽनन्येनापृथग्द- र्शिनाचार्येण प्रतिपाद्यब्रह्मात्मभूतेन प्रोक्त उक्त आत्मनि गतिरनेकधास्तिना स्तीत्यादिलक्षणा चिन्ता गतिरत्रास्मिन्नात्मनि नास्ति न विद्यते सर्वविकल्प गतिप्रत्यस्तमितत्वादात्मन । अथवा स्वात्मभूतेऽनन्यस्मिन्नात्मनि प्रीक्त्तेऽ- नन्यप्रोक्त गतिरत्रान्यावगतिर्नास्ति ज्ञेयस्यान्यस्याभावात् । ज्ञानस्य ह्येषा परा निष्ठा यदात्मैकत्वविज्ञानम् । अतोऽवगन्तव्याभावान्न गतिरत्रावशिष्यते। संसारगतिर्वात्र नास्त्यनन्य आत्मनि प्रोक्त्ते नान्तरीयकत्वात्तद्विज्ञानफ- लस्य मोक्षस्य । अथवा प्रोच्यमानब्रह्मात्मभूतेनाचार्येण प्रोक्त आत्मन्यग- तिरनवबोधोऽपरिज्ञानमत्र नास्ति । भवत्येवावगतिस्तद्विषया श्रोतुस्तदस्म्य- हमित्याचार्यस्येवेत्यर्थः । एवं सुविज्ञेय आत्मागमवताचार्येणानन्यतया प्रोक्तः । इतरथाणीयानणुप्रमाणादपि संपद्यत आत्मा । अतर्क्यमतर्क्यः स्वबुद्धयाभ्युहेन केवलेन तर्केण । तक्र्यमाणेऽणुपरिमाणे केनचित्स्थापित आत्मनि ततो ह्यणुतरमन्योऽभ्यूहति ततोऽप्यन्योऽणुतममिति । न हि कुतर्कस्य निष्ठा क्कचिद्विद्यते ॥ ८ ॥ अतोऽनन्यप्रोक्त आत्मन्युत्पन्ना येयमागमप्रतिपद्यात्ममतिर्नैषा तर्केण [प्रकाशिका ] अवरेणाश्रेष्ठेन प्राकृतेन पाण्डित्यमात्रप्रयोजनवेदान्तश्रवणेन नरेण देहात्माभिमानिनैष आत्मा सुविज्ञेयो न भवति । कुतो हेतोः । बहुधा चिंत्यमानो वादिभिरिति शेषः । अनन्येनोच्यमानादात्मनोऽनन्येन तदेका- न्तिना ब्रह्मसाक्षात्कारिणा प्रोक्तऽत्रात्मनि यादृश्यवगतिः सात्मावगतिरवरेण प्रोक्त्ते नास्तीत्यर्थः । यद्वात्र संसारे गतिश्चङ्क्रमणं नास्तीत्यर्थः । यद्वाऽनन्य- प्रोक्ते स्वयमवगते गतिरात्मावगतिर्नास्तीत्यर्थः । अन्यप्रोक्त इति पाठेऽवरेण प्रोक्त्ते सत्यात्मन्यवगतिर्नास्तीत्यर्थः। ननु येन केनचिदुपदिष्टेप्यूहापोहशालिनः स्यादेवेत्यत आह--यतोऽणोरप्यणीयानात्मातस्तत्स्वरूपं तर्कगोचरम् ॥८॥ आत्मविषयिणी मतिस्तर्कप्रापणीया नेत्यर्थः । अतस्तर्ककुशलेनापि