पृष्ठम्:काठकोपनिषत्.djvu/५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१॥२॥६ काठकोपनिषत् अयं लोको नास्ति पर इति मानी पुनः पुनर्वशमापद्यते मे ॥६॥ श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपि बहवो यं न विघुः । आश्चर्यो वक्ता कुशलोऽस्य लब्धाश्चर्यो ज्ञाता कुशलानुशिष्टः ॥ ७ ॥ [शांकरभाष्यम्] परलोकस्तत्प्राप्तिप्रयोजनः साधनाविशेषः शास्त्रीयः सांपराय सच बालमविवेकिनं प्रति न प्रतिभाति न प्रकाशते नोपतिष्ठत इत्येतत् । प्रमाद्यन्तं प्रमादं कुर्वन्तं पुत्रपक्ष्वादिप्रयोजनेष्वासक्तमनसं तथा वित्तमोहेन वित्तनिमित्तेनाविवेकेन मूढं तमसाच्छत्रं सन्तमयमेव लोको योऽयं दृश्यमान: स्त्र्यन्नपानादिविशिष्टो नास्ति परोऽदृष्टो लोक इत्येवं मननशीलो मानी पुनः पुनर्जनित्वा वशं मदधीनतामापद्यते मे मृत्योर्मम जननमरणादिलक्षणदु:- खप्रबन्धारूढ एव भवतीत्यर्थः । प्रायेण ह्येवविध एव लोकः ॥ ६ ॥ यस्तु श्रेयोर्थी सहस्त्रेषु कश्चिदेवात्मविभ्दवति त्वद्विधो यस्माच्छ्रव- णायापि श्रवणार्थे श्रोतुमपि यो न लभ्य आत्मा बहुभिरनेकैः शृण्वन्तोऽपि बहवोऽनेकेऽन्ये यमात्मानं न विघुर्न विदन्त्यभागिनोऽसंस्कृतात्मानो न विजानीयुः । किंचास्य वक्ताप्याश्चर्योऽभ्द्रुतवदेवानकेषु कश्चिदेव भवति । तथा श्रुत्वाप्यस्यात्मनः कुशलो निपुण एवानेकेषु लब्धा कश्चिदेव भवति । यस्मादा क्ष्चर्यो ज्ञाता कश्चिदेव कुशलानुशिष्टः कुशलेन निपुणेनाचार्येणानुशिष्टः सन् ॥ ७ ॥ [प्रकाशिका] परलोकोऽविवेकिनं प्रति न प्रकाशते । अनवहितमनस्कं विषया- शावशीकृतमनोरथम् । अयमेव लोकोऽस्ति परलोको नास्तीति मन्यमानः । मत्त्रियमाणयातनाविषयो भवतीत्यर्थः । व्यासार्यै : “ संयमने त्वनुभूय " ब्र० सू० ३॥१।१३ इति सूत्रेऽयं लोको नास्ति पर उत मानीति पाठानुसारेणायं च लोकः परश्च लोको नास्तीत्यर्थो वर्णितस्तत्र पक्षे तस्येति शेषः पूरणीयः । चशब्दोऽध्याहार्यः । मानीत्यस्य दुर्मानीत्यर्थः । शिष्टपरिग्रहाभावादथं लोको नास्तीत्यस्येोपपतिर्दष्टव्या । दुर्मानी पुनः पुन- र्वशमापद्यत इत्युत्तरत्र संबध्यते ॥ ६ ॥ श्रवणलाभोऽपि महासुकृतफलमिति भाव । न हि श्रोतृणां सर्वेषां पर- मात्मप्रतिपात्तिः सुलभेति भाव: । अस्य कुशलो वक्त्ता कुशलः प्राप्ता च दुर्लभ इत्यर्थः । कुशलेनाचार्येणानुशिष्टो ज्ञाताऽप्याश्चर्यः । मनुष्याणां सहस्त्रेषु कश्चिद्यतति सिद्धये ॥ यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः । भ. गी. ७।३ इत्युक्त्तेरिित भावः ॥ ७ ॥