पृष्ठम्:काठकोपनिषत्.djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२१     भाष्यद्वयोपेता     १।१।२१

  दैवेरत्रापि विचिकित्सितं पुरा न हि सुज्ञेयमणुरेष धर्मः ।
  अन्यं वरं नचिकेतो वृणीष्व मा मोपरोत्सीरति मा सृजैनम् ।।
  देवैरत्रापि विचिकित्सितं किल त्वं च मृत्यो यन्न सुज्ञेयमात्थ ।
  वक्ता चास्य त्वादृगन्यो न लभ्यो नान्यो वरस्तुल्य एतस्य कश्चित्
  शतायुषः पुत्रपौत्रान्वृणीष्व बहून्पशून्हस्तिहिरण्यमश्वान् ।

[शांकरभाष्यम्] किमयमेकान्ततो निःश्रेयससाधनात्मज्ञानार्हो न वेत्येतत्परीक्षणार्थमाह-देवैरप्यत्रैतस्मिन्वस्तुनि विचिकित्सितं संशयितं पुरा पूर्वं न हि सुज्ञेयं सुष्ठु ज्ञेयं श्रुतमपि प्राकृतैर्जनैर्यतोऽणुः सूक्ष्म एष आत्माख्यो धर्मोऽतोऽन्यमसंदिग्धफलं वरं नचिकेतो वणीष्व मा मां मोपरोत्सीरुपरोधं मा कार्षीरधमर्णमिवोत्तमर्ण: । अतिसृज विमुच्चैनं वरं मा मां प्रति ॥२१ ॥

 एवमुक्तो नचिकेता आइ देवैरत्राप्येतस्मिन्वस्तुनि विचिकित्सितं किलेति भवत एव नः श्रुतम् । त्वं च मृत्यो यद्यस्मान्न सुज्ञेयमात्मतत्वमात्थ कथयस्यत: पण्डितैरप्यवेदनीयत्वाद्वक्ता चाम्य धर्मस्य त्वादृक्त्वत्तुल्योऽन्यः पण्डितश्च न लभ्योऽन्विष्यमाणोऽपि । अयं तु वरो निःश्रेयसप्राप्तिहेतुरतो नान्यो वरस्तुल्यः सदृशोऽम्त्येतस्य कश्चिदप्यनित्यफलत्वादन्यस्य सर्वस्यैवेत्याभिप्राय: ॥ २२ ॥

 [प्रकाशिका] शिकायां शरीरवियोगवाचित्वमभ्युपेत्यैव चरमशरीरवियो- गपरतया व्याख्यातत्वादिति चेदस्त्वेवम् । तथाप्ययमित्यनेन चरमशरीर वियोगपरामर्शसंभवात्तद्विषयिण्येव विकिचित्साऽस्तु । ननु तस्य निश्चितत्वात्तद्विषयिणी विचिकित्सा नोपपद्यत इति चेत्सत्यम् । अयं चरमशरीरवियोगो ब्रह्मरूपाविर्भावपूर्वभावित्वेन रूपेणास्ति न वेति विचिकित्सायाः सूपपादत्वादिति वदन्ति ॥ २० ॥

एवं मुक्तस्वरूपं पृष्टो मृत्युरुपदिश्यमानार्थस्यातिगहनतया पारं प्राप्तुमप्रभवते मध्ये पतयालवे नोपदेष्टव्यमिति मत्वाह बहुदर्शिभिरपि देवैर स्मिन्मुत्क्तात्मस्वरूपे विचिकित्सितं संशयितम् । आत्मतत्वं न सज्ञानमितिसूक्ष्म एष धर्मः । सामान्यतो धर्म एव दुर्ज्ञानस्तत्राप्ययं दुर्ज्ञान इति भावः ।स्पष्टोऽर्थः । मा मेति निषेधे । वीप्सायां द्विर्वचनम् । उपरोधं मा कार्षीः। एनं मां विसृज मुञ्च ॥ २१ ॥

 एवमुक्तो नाचकेताः प्राह---स्पष्टोऽर्थः । न सुज्ञेयमिति यदात्मस्वरूपमुक्तवान् । त्वादृक्त्वादृश इत्यर्थः । अन्यत्स्पष्टम् ॥ २२ ॥