पृष्ठम्:काठकोपनिषत्.djvu/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वीक्रियते । कैश्चिदव्याकृत:’ इति कथयद्रिः । अयं मन्त्रो न केवलं शङ्कराचार्थेरेवाव्याख्यातः किन्तु तद्विरुद्वैः श्रीरामानुजाचार्यानन्तरभावि भिरपि माध्वादिभिरव्याख्यातः । तेनायं निमूल इवाभाति । रङ्गरामानुजा चायै: * अथापि प्रत्ययितव्यतमैव्यस्ादिभिरेव व्याख्यातत्वान्न प्रक्षेपशङ्का कार्या' इति केवलमुत्तं न च यत्र व्यासादिभिव्यौरव्यातं तत्प्रदर्शितम् । किंच १॥१॥१७ मंत्रे तरति जन्ममृत्यू इत्यस्य व्याख्यायां “करोति तद्येन पुनर्न जायते' इत्यनेनैकाथ्यात् इति १।१।१९ मंत्रस्याश्रयः कृतः । तथा १।१।१९ इति मन्त्रस्थं करोति तद्येन पुनर्न जायते ? इति व्याख्यातुं १।१।१७ मन्त्रस्थं “त्रिभिरेत्य सन्धि त्रिकर्मकृत्तरति जन्ममृत्यू' इत्यङ्गी कृतं सोऽयमन्योन्याश्रयः । एतद्वयाख्यानं सुधीभिर्विभावनीयम् । रङ्गरामा नुजायै: १।३।१३ इत्यादिमन्त्रेषु तत्र तत्र ‘इमं मन्त्रं प्रस्तुत्येत्थं हि भाष्य कृता’ इति केवलं भाप्येोक्तिरुद्विध्रयते नतु स्वयं तदनुसारं व्याख्यायत । ग्रन्थकृतामय पन्था ---यत्प्रथमं स्वयं व्याख्येया मन्त्रास्ततस्तथा चातक भाष्यकृतेति प्रामाण्यप्रदर्शनम् । अत्र * क्षेमाय यः करुणया' इतेि श्रीरामानु जाचार्याणां वर्णनं ततस्तृतीयश्लोकेऽपि पुनस्तस्यैव वर्णनम् । तेनेत्थं प्रती यते यत्क्षेमायेति क्षेोको न ग्रन्थशरीरस्थः किन्तु सर्वै: सर्वदा मङ्गलत्वेन गृह्यमाण इति । अतएव ग्रन्थान्तेऽपि स उपलभ्यते । अन्याः काश्धनात्रत्या अनुपपत्तयो बालबोधेिन्यां प्रदर्शितास्तास्तत एवावगन्तव्याः । ११ बालबोधिनी । अस्या उपनिषदो व्याख्याद्वये बालबोधिनी नाम वृत्तिर्मया व्यरचि । साच यावच्छक्यमन्वर्थनाम्री यथा स्यात्तथा प्रयतितम् । यद्यपि शाङ्कर भाष्य अानन्दज्ञानकृता गापालयतान्द्रप्रणता त्र व्यरव्यापलभ्यत् तत्र द्वितीया विस्तृता तथापि नव्यच्छात्राणां मन्दव्युत्पत्तीनां कृतेऽवश्यमस्या उपयोगो भविष्यतीति संभावये । किंच प्रकाशिका नाद्यापि व्याख्याता । केनोपनिषत्प्रकाशिकायां नैकमप्यासीन्मीमांसास्थलमत्र तु प्रतिपत्रं मीमांसा निर्देशा उपलभ्यन्ते तेषां सर्वेषामवबोधायैषा व्याख्या यथा प्रभवेत्तथा प्रयतितं ग्रन्थविस्तरमगणयित्वापि । यत्र मीमांसानिर्दशास्तत्र तत्तानि सत्राणि साकल्येन निर्दिष्टानि । अधिकरणं यत्र भिन्ननामकमत्र निर्दिश्यते तस्य मीमांसाशास्त्रप्रसिद्धं नामाध्यायपादादिसंख्यासहितं निर्दिष्टम् । येन च तदधिगमः सुकरः स्याजिज्ञासूनाम् । सूत्रादीनामर्थाः शाबरभाष्यानुसारं