पृष्ठम्:काठकोपनिषत्.djvu/१९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१७१ काठकोपनिषद्भाष्यये २।३।१७ [ प्रकाशिका ] [ पृ. ८९ ] समभिव्याहृतेति । समभिव्याहृत:--- समीपोचारितः । अयमर्थः । देवदत्तः स्वाच्छरीराद्विलक्षण इति वाक्ये स्वपदेन समीपोच्चारितस्य देवदत्तस्य संबन्धि यच्छरीरं तद्ग्रहणं तद्वत् तं स्वाच्छरीरादिति मंत्रे स्वशब्देनान्तरात्मसंबन्धि जनवाचकं चेतनं शरीरं गृह्यते । धारकत्वेत्यादि । अन्तरात्मा जनशब्दितस्य चेतनस्य धारको नियन्ता । तच जनशब्दितमस्य शेषभूतमयं चान्तरात्मा तच्छेषीति वैलक्ष- ण्यं ज्ञेयमित्यर्थः ॥ १७ ॥ २।३।१८ [ शांकरभाष्यम्] [ पृ. ८९ ] अध्यात्ममेवेति । आत्मनि देह इत्यध्यात्मम् । “ अव्ययं विभक्ति ’ पा. सू. २।१।६ इत्यादिसूत्रेण विभ- क्त्यर्थेऽच्ययीभावः । प्रत्यक्स्वरूपं ब्रह्म प्राप्येत्यर्थः । अर्चिरादिमार्गगम्यं रूपं प्राप्य तु न विमृत्युता संयोगस्य वियोगावासनत्वात् ॥ १८ ॥ २ । ३ । १९ [ शांकरभाष्यम् ] प्रमादकृतान्यायेनेति । यथायथमध्ययनाकरणमाल- स्यादिति शिष्यापराधः । तथैवान्यायाध्यापनं गुरोरपराधः । [ पृ. ९१ ] तेजस्विनावित्यस्य तेजस्विनोरिति षष्टयन्तेन विपरिणामः स्वधीतमित्यस्या- ध्याहारश्चेत्युभयं कृिष्टमतो व्याख्यानान्तरमाह--अथवेति [ पृ. ९२ ] द्वेषमिति । अनेन सम्यङ् नाधीतमनेन च सम्यङ् नाध्यापितमिति मत्वा द्वेषः । [ पृ. ९३ ] सर्वदोषोपशमनार्थमिति । आध्यात्मिकाधिभौतिका- धिदैविकदोषत्रयप्रशमनार्थे त्रिर्वचनम् । ॐकारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्त्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ ॥ १ ॥ ' इत्युक्त्या ॐशब्दो मङ्गलार्थक इतिशब्दो भाष्यसमाप्तिद्योतकः ॥ १९ ॥ [ प्रकाशिका ] सहैव परिपालयत्विति । सहेति त्रिवारमस्मिन्मंत्र उपलभ्यते । तत्र प्रकाशिकायां ’स, ह ’ इति पदद्वयमेकत्र स्थलेऽङ्गी कृतमन्यत्र स्थलद्वये सहेत्येकं पदं तन्न संगच्छतेऽर्धजरतीयदोषापतेः । शांकरभाष्ये तु सर्वत्रैवैकमेव पद्मादृतम् । सनियमेति । असूयकायानृजवे विद्या देयेति नियमः ’ विद्या ह वै ब्राह्मणमाजगाम ’ इत्यादिश्रुत्या प्रद- र्शितः । [ पृ. ९० ] विबूते--पाठयति । पृच्छतीति । नापृष्टं कस्य- चिद्ब्रूयान्न चान्यायेन पृच्छत इतिस्मृतेः । दोषशान्त्यर्थमिति । आध्या- त्मिकादित्रिविधदोषप्रशमनार्थे त्रिवारं शान्तिरिति पदम् । प्रतिसंबन्धी-