पृष्ठम्:काठकोपनिषत्.djvu/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९ शाङ्करभाष्यम् । श्रीमच्छङ्कराचायैः प्रस्थानत्रये भाष्यं व्यरचि तैर्येन क्रमेणोपनिषदा दयो व्याख्याता एतद्विषयकमन्यत्रास्माभिर्निबन्धरूपेण प्रतन्यते । अत्र केवलं .. ............ कठोपनिषद्भाष्यविषयकमल्पशो विव्रियते । इदं भाष्यमाचा १ अथ भाष्यस्य र्यकृतिकुसुममालिकायां प्रथमकुमुमभूतम् । यतोऽत्रादैौ गद्या प्राथम्यम् । त्मकं मङ्गलमस्ति । उपनिषच्छब्दव्युत्पत्तिश्चात्र प्रदश्यते । यद्यपि मुण्डकोपनिषद्राप्यारम्भेऽपि सा दर्शिता तथापि तस्या अल्पीय मृत्वम् । अनुबन्धचतुष्टयं च प्रदर्शितम् । वृत्तिग्रन्थवत् सुलभैः पदैरर्थ प्रदश्यैते । ‘अल्पग्रन्था वृत्तिः' इत्यादि स्वयमव प्रातज्ञायत च । आचाया कृष्णयजुर्वेदाध्यायिनस्तेनापि कृष्णयजुर्वेदान्तर्गताया अस्या उपनिषदो भा प्यम्य प्राथम्यं युक्तिसहम् । उपनिषद्भाष्यान्तरवदत्र बहूनामवतारितश्रुति स्मृतिवाक्यानामभावोऽस्य प्राथम्यमुपेोद्वलयति । भाप्यस्यायं प्रथमः प्रसंग इति कृत्वा केनोपनिषद्राप्यादिवदस्या उपनिषदः पूर्वापरग्रन्थसंगतिर्न दर्शिता । कुत्रत्येति शाखानिर्देशोऽपि न कृतः केवलं “अथ काठकोपनिष द्रलीनां सुग्बार्थप्रबोधनार्थमल्पग्रन्था वृत्तिरारभ्यते’ इत्युक्तम् । आचार्या सदा पाठक्रमेण व्याख्यान्ति नान्वयक्रमेण । अस्यामुपनिषदि २॥३॥६ मन्त्रे तु तैः पृथगुत्पद्यमानानामिति पदम्यान्वयक्रमेण व्याख्यानमकारि तेनैवं कल्प यितं सशकं यत्तरादृतस्यास्य भाप्यस्य प्राथम्यान्नासीद् दृढतरो नियम एत भद्राप्यकर्णसमये ‘अतस्ता यथाप्रांतेभान व्याचक्ष्यहं’ इति १।१।१ इत्य त्राचायाणामुरत: केवलं विनयद्येोतिका न स्यादन्यत्रानपलम्भादतोऽपि प्रा थम्यमस्या आचार्यकृतेरिति दृढं प्रतीतिपदमारोहति । त्रिणाचिकेत इति १।१।१७ कारिकायां शाङ्करभाष्ये प्रत्यक्षानमा नागमैरिति प्रमाणत्रयस्यैव ग्रहणं कृतं तत् पट्त्सु प्रमाणेषु प्रत्यक्षानुमाना गमानां प्रामाण्यं द्योतयितुं स्यात् । वस्तुतस्तु प्रत्यक्षानुमानोपमानागमार्थाप त्यनुपलब्याख्यानि षडपि प्रमाणानि जैमिनीयशास्त्रवदेवा चार्याणां संमतानि सर्वत्र तद्ग्रन्थेषु सर्वेषामुपलम्भात् । वेद विचार ! स्यैवाप्रतिहतं प्रामाण्यं रवेरिव रूपविषय इति तन्मतमिति त्वन्यत् । १॥३॥९ इत्यत्र विष्णोरित्यस्य व्याख्यां कुर्वद्भिराचायैः विष्णो व्यपनशीलस्य ब्रह्मणः परमात्मनो वासुदेवाख्यम्य' इत्युक्तं तेनाचार्याणां वसुदेवपुत्रे सगुणपरमेश्वरे तात्पर्यमिति न मन्तव्यं । तत्र वासुदेवपदस्य २ भाष्य