पृष्ठम्:काठकोपनिषत्.djvu/१८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१६७ काठकोपनिषद्भाष्यद्वये २।३।९ निमित्तमिति चेत्तदपि न । तस्यासंगत्वेन परमानन्दस्वभाववत्वादिति निय- न्तृत्वेन बुद्धिर्मनीडित्युच्यते । अविकल्पयित्र्येति सर्वविकल्पशून्यया केवलं ब्रह्मास्मीत्याविषयतयैव ब्रह्मभावव्यंजिनकया महावाक्योत्थबुद्धिवृत्या ज्ञातुं शक्यत इति संबन्धः । अभिप्रकाशित इति । मया दृश्यमनं घटादि यथाहं न भवामि तथा शरीरेन्द्रियसंघाते यद्यद्दृश्यं तत्तदहं न भवामि किंतु योऽत्र ज्ञोंऽशः सोऽस्मि सर्वशरीरेष्वेकलक्षणलक्षितत्वादेक एवेति विचा- रेण प्रथमं संभावित इत्यर्थः ॥ ९ ॥ [शांकरभाष्यम्] बहुशः श्रुतवेदान्ता अपि केचिद् ब्रह्मास्मीति स्थिरबुद्धि- मन्तो न भवन्तीति किंचित्प्रतिबन्धकान्तरं भवेत्तदपाकरणार्थमुपायो वक्तव्य इत्याह-सा हृदिति । योग इति । श्रवणमननाभ्याससंभावनादोषस्यनिरासेऽपि चित्तानेकाग्रतादोषरूपः प्रतिबन्धकः संभवति तदर्थे योगश्चित्तवृत्तिनिरोधरूपः कथ्यत । [ पृ. ८४] अवतिष्ठन्ते-निवृत्तव्यापाराणि भवन्ति ॥ १० ॥ [ प्रकाशिका ] [ पृ. ८३ ] व्युत्पत्योति । ज्ञायते घटादिरनेनेति कर- णव्युत्पत्त्या ज्ञानशब्दस्येन्द्रियवाचकत्वं तदाह-इन्द्रियाणीति । व्यपदि- सायात्मिका बुद्धिः । अभिमानात्मकोऽहंकारः । चिन्तात्मकं चित्तम् । संकल्पविकल्पात्मकं मनः ॥ १० ॥ २|३|११ [ शांकरभाष्यम् ] तां योगमिति मूले योगशब्दस्याजहलिङ्गत्वात्पुंलिं- गेनापि सामानाधिकरण्यम् । इतिशब्देन कर्मणोऽभिधानात्तां योग इति मन्यन्त इति प्रथमान्तपाठ आवश्यक ’ छान्दसत्वाद्भद्वितीयान्तः कथमपि साधुः । वस्तुतो वियोगमपि विरुद्धलक्षणया तं योगं मन्यन्त इत्युतं तद्विश दयति-सर्वानर्थेति । सर्वानर्यसंयोगेत्यत्राधुना संयोगेति पाठो दृश्यते सच पर्वव्याख्याभ्यां नाद्रियते । अतोऽसाधुः । अनर्थसंयोगपूर्वको वियोग इति मध्यमपदलोपिसमासेनानर्थसंयोगेभ्यो वियोग इति पंचमीसमासेन वा कथम- पि स्थितस्य गतिश्चिन्तनीया । एतस्यामवस्थायामिति । लयविक्षेपक- षायरसास्वादवर्जितायामवस्थायामित्यर्थः । एते लयादयश्चत्वारो निर्विकल्प- कसमाधेर्विध्नभूताः । तलुक्षणानि । लयो नाम—अखण्डवस्त्वनवलम्बनेन चित्तवृत्तेर्निद्रा । विक्षेपो नाम-अखण्डवस्त्वनवलम्बनेन चित्तवृत्तेरन्यालम्ब-