पृष्ठम्:काठकोपनिषत्.djvu/१८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२।३।५ बालबोधिनी त्मन आत्मनो विवेचनस्य दुष्करत्वाद्व्रह्मलोकंस्थानामप्यात्मतत्वं न सुलभ- मिति भाव ॥ ५ ॥ २ । ३ । ६ [ शांकरभाष्यम् ] [ प. ८२ ] स्वस्वविषयेति । शब्दादिविषयाणां ग्रहणमेव प्रयोजनं तेन सहेत्यर्थः । पृथगुत्पद्यमानानामिति । अत्रान्व यक्रमेण व्याख्यानमन्यत्र सर्वत्र शांकरभाष्यग्रन्थेषु पाठक्रमेणैव व्याख्यानं भवति । शोककारणत्वानपपत्तेरिति । आत्मव्यभिचारो नाम द्वैतदर्शनं तदेव शोककारणं ’ द्वितीयाद्वै भयं भवति ’ इति श्रुतेरिति भावः ॥ ६ ॥ २ | ३ । ८ [ शांकरभाष्यम्] आलिंग एवेति । वैशिषिकैर्बुध्द्याद्यश्चतुर्दशात्मनो गुणा इत्यगात्रक्रयते । तदर्थं च तैरेवमनुमानं प्रदर्यते । बुध्द्यादय साश्रया गुणत्वाद्व्रपवदिति । परमेतदनुमानमसत् । गुणानां साश्रयत्वस्या न्यथासिद्धत्वेन सिद्धसाधनत्वात् । किंच बुध्द्याद्याश्रयभूत आत्मेति यतै कल्प्यते तच्छ्रुतिविरुद्धं श्रुतौ ह्यात्मनो निर्गुणत्वमुच्यते । “ हीर्धीर्भीः सर्वे मन एव ' इति श्रुत्या मनसो बुध्द्यादिगुणवत्वमुच्यते च । हीर्धीर्भी रित्यादिश्रुतौ वृत्तिवृत्तिमतोरभेदान्मन एवेत्यनेन मनसो वृत्तय इति बोध्यते । मुच्यतऽमृतत्व च गच्छतीति वाक्ययोः पुनरुक्त्तिर्न किन्तु मुच्यत इत्यनेन जीवत्यपि शरीरे मुक्तिर्बोध्यते । इयमेव जीवन्मुक्तिः । अमृतत्वं च गच्छ- तीत्यनेन विदेहमुक्तिश्च बोध्यते तदेतदाह-यं ज्ञात्वेत्यादिना । एवमर्था- करणेऽमृतत्वं चेति चकारस्य वैयर्थ्यं स्यादित्यपि बोध्यम् ॥ ८ ॥

२ | ३ | ९ [ शांकरभाष्यम् ] [ पृ. ८३ ] कथं दशेनमुपपद्यत इति प्रष्टुः कोऽ- भिप्रायः किं विषयतया दर्शनमुताविषयतयैव दर्शनोपायो वाच्यः । तत्र प्रथमपक्ष आह-न संदृश इति । रूपादियुक्त रूपादिविशपणं च वस्तु दर्शनयोग्यं भवत्यत्र तु तदभावान्न दर्शनविषयतेत्यर्थः । द्वितीयपक्ष आह- कथं तहीति । बाह्येन्द्रियोपरमेऽपि यदा मनो विषयान् संकल्पयते तदा मुमुक्षोर्बुद्धिस्तस्य मनसो नियामिका भवति । पृच्छति च तत् । हे मन किमर्थं त्वं पिशाचवत्प्रधावासि । न तावत्स्वप्रयोजननिमित्तम् । तव जडत्वेन प्रयोजनसंबन्धासंभवात् । विषयप्रयोजननिमित्तमिति चेत्तदपि न संभवति तेषां क्षयिष्णुत्वादिदोषषत्वेन संबन्धेन प्रयोजनानुपपत्तेः । चेतनप्रयोजन-