पृष्ठम्:काठकोपनिषत्.djvu/१८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१६३ काठकोपनिषद्भाष्यद्वये २।३।१ इति । ज्ञानप्राप्त्या संसारसमाप्तौ। कदलीस्तंभवदिति । यथाम्रनिम्बादिवृक्षे कर्तिते सारभागो दृश्यते रक्तादिवर्णयुतस्तथा कदलीस्तम्भे सारभागो न दृश्यते । अनेकशतेति । अनेकशतसंख्याका ये पाखण्डाः श्रतिश्रद्धावि- धुराश्चार्वाकाद्यस्तद्बुद्धिविकल्पनामास्पदं स्थानभूतः । यथा लौकिकवृक्षे स्था- णुर्वा पुरुषो वेति विकल्पा एवं संसारवृक्षेपि वेदबहिर्भूतानां ’ अयं संघाते वा परिणामो वारब्धो वा नवेत्यादयोऽनेकसंशयाः समुत्पद्यन्त इत्यर्थः । आनिर्धारितेदंतत्व इति । तत्त्वजिज्ञासभिरधिकारिभिस्तत्वदृष्टया विचा- र्यमाणेऽस्य संसारस्येदं तत्वमिदं स्वरूपमिति ब्रह्मणः पृथक्तया न ज्ञायते ब्रह्मातिरिक्तस्य सर्वस्य विवर्तभूतत्वात् । वेदान्तेत्यादि । वेदान्तेषूपनिषत्सु निश्चितं यत्परब्रह्मरूपं मूलं तदेव सारभागः स्थिरांशो यत्रेति । ब्रह्मातिरिक्तं संसारे सर्वमसारामत्यर्थः । आविद्याकामेति । अविद्याध्यासः कामकर्मा- ण्यव्यक्तमज्ञातचैतन्यमेतानि बीजं तस्मात्प्रभव उत्पत्तिर्यस्य। अपरब्रझेति । अपरब्रह्मणोऽव्यक्तवैतन्यस्य विज्ञानक्रियाशक्तिद्वयात्मको हिरण्यगर्भः प्र- थमावस्थाभेदोऽङ्कुरोऽस्येति। सर्वप्राणीति। सर्वप्राणिनां लिंगशरीरविशेषास्त एव स्कंधाः शाखाभूलानि यस्य । तृष्णासलिलेति । तृष्णा विषयतृष्णैव सलिलं तेन सेकः सेचनं तेनोद्भूतो दर्पो गर्व उच्छायो यस्य । तत्ततृष्णेति पाठे विविधविषयजन्यतृष्णेति भावः । [ पृ. ७९ ] बुद्धीन्द्रियेति । बुद्धी- न्द्रियाणां ज्ञानेन्द्रियाणां ये विषयाः शब्दस्पर्शादयस्ते प्रवालाः नवपत्राणि किसलयान्यङ्कुरा निशिताग्रभागाः प्ररोहाश्च यस्येति केभ्यश्चिद्वृक्षेभ्यः किसलयोद्भवः केभ्यश्चित्प्ररोहोद्भवः । अतो भाप्यकृद्रि प्रवालाङ्कुरेति पदद्वयमुपात्तम् । पूर्वटीकाकृतां प्रवालाङ्कुरा इत्यस्य समुच्चयेन किसलय- रूपार्थस्तु न विद्वन्मनोरमः पुनरुक्तिदोषसंभवात् । श्रतीति । ’ श्रुतिस्तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः ' इति निरुक्त्या श्रुतिस्मृतिपदाभ्यां वेदो मन्वादिस्मृतयश्च गृह्यन्ते । न्यायविद्या —गौतमोक्तन्यायशास्त्रं षोडश पदार्थात्मकम् । तदुपदेश एव पलाशानि पत्राणि यस्येति । यज्ञेति । य- ज्ञादिक्रियारूपसुपुष्पयुतः । सुखेति वेदना-ज्ञानं, सुखदुःखज्ञानरूपा अनेके रसा यत्र । लौकिकवृक्षेतु यथासंभवं मधुरकट्टादिरेक एव रसः । प्राण्युप- जीव्येति । प्राणिभिरुपजीव्यान्यनन्तानि : पुत्रपश्चादिरूपाणि फलानि यस्येति तत्तृष्णेति । तत्तत्फलतृष्णैव सलिलावसेकस्तेन प्ररूढानि कर्मवासनादीनि जटीकृतानि-सात्विकादिभावेन मिश्रीकृतानि