पृष्ठम्:काठकोपनिषत्.djvu/१८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१६१ काठकोपनिषद्भाष्यद्वये २।२।१५

पराभिप्रायः । तदयुक्तमिति । अनुभातीतिपदस्थानुपदस्यास्वारस्यात् । तदेव विवृणोति--तथाहीति । भान्तमित्यत्र भाधातोरेव शतृप्रत्ययः कर्त्र- र्थकः । भातीत्यत्रापि कर्त्रर्थक एव तिप्प्रत्ययः । तयोश्च शिष्यज्ञानं प्रका- शत इति दृष्टान्तवदभेदेऽपि संभवः । तथाहि शिष्यज्ञानं प्रकाशत इत्युदा- हरणे गुरुणा शिष्यायोपदिष्टं यज्ज्ञानं तत्प्रकाशत इत्यर्थः । गुरुज्ञानानन्तरं जायमानं शिष्यज्ञानं प्रकाशते । एवंच गुरुशिष्यज्ञानप्रकाशयोर्यथा न भेदः किन्त्वभेदस्तथा दार्ष्टन्तिकेऽप्यात्मभाननिमित्तं सूर्यादीनां भानं तेनात्मसूर्य- योर्भानस्याभेदेऽप्यनुभातीतिपदस्थानुशब्दो न घटते । दृष्टान्तेतु प्रकाशत इत्येव पदं न त्वनुप्रकाशत इति । अधिष्ठानब्रह्मभानव्यतिरिक्तं सूर्यादेर्भानं नास्तीति स्वीकारे यानुपपतिस्तामाह दृष्टान्तपूर्वकं—नहीति । यत्र देवदत्तस्य गमनमेव यज्ञदत्तस्य गमनं स्वयं तु यज्ञदत्तो न गच्छति केवलं तिष्ठत्येव तत्र गच्छन्तं देवदत्तं यज्ञदत्तोऽनुगच्छतीति वाक्यप्रयोगो न दृष्ट इत्यर्थः । दृष्टचर इत्यत्र पूर्वं दृष्टो दृष्टचर इति भूतपूर्वे चरट्। अनुपपत्तिभेदं शंकते दृष्टान्तान्तरेण नन्विति । वन्हिं दाहकमनु लोहं दहतीति प्रयोग उपलभ्यते:तत्र वन्हिद- हनक्रियाव्यतिरिक्तदहनक्रियाशून्यं लोहं तद्वदत्राप्यधिष्ठानब्रह्मरूपभानव्य- तिरिक्तभानशून्यत्वमादित्यादीनामनुशब्दप्रयोगेऽपि संगच्छेतेति शङ्कार्थः । समाधत्ते-नेत्यादिना । लोहस्य वन्ह्यपेक्षया पृथग् दग्धृत्वं नास्तीति यस्य निश्चितं ज्ञानं तेन पुरुषेणेदृशप्रयोगस्यासंप्रतिपन्नत्वादनङ्गीकृतत्वात् । अयं भावः । वन्हि दहन्तमयोऽनुदहतीति प्रयोगो येन कृतः सोऽयसो दग्धृत्वा भावं न निश्चिनोति तन्मतेऽयसोऽपि दग्धृत्वस्य सत्त्वात् । यश्चायसो दग्धू- त्वं नास्ति किन्तु वन्हेरेवेति निश्चितज्ञानवान्स तादृशप्रतिपादनेच्छया वन्हि दहन्तमयोऽनुदहतीति प्रयोगं नैवाङ्गीकुरुते । अतश्चायं प्रयोगोऽनिश्चित- ज्ञानवतस्तेन न दोष । प्रकृतश्रुतिस्तु सिद्धान्तभूता तत्र दृष्टान्तवदनिश्चित- ज्ञानवत्वं वक्तर्नाङ्गीकर्तु शक्यते तेनानुशब्दस्यानुपपत्तिरेव । स्वाभिमतार्थ शङ्कते--नन्विति । मुक्तानां ब्रह्मतेजसः सूर्यादितेजसश्चेत्युभयाविधस्य प्रत्यक्ष भवति तत्रैकस्याभिभवो न वतुं शक्यते । अभिभवनं नाम सजातीयस्य तेजसः संमिश्रणेन तस्य तदितरस्य चाग्रहणं यथा चन्द्रतेजसः सूर्यतेज संवलनादग्रहणं प्रकृतेतु ब्रह्मतेजसो विजातीयत्वात्संवलनाभाव इति शङ्का- र्थः । समाधत्ते -बद्धविषयमेवैतदिति । मुक्तविषये तथात्वेऽपि बद्धविषयेऽ- भिभवनं स्यादित्यर्थः । ननु बद्धानां साक्षात्कारो न स्यादिति कथमिदं समा-