पृष्ठम्:काठकोपनिषत्.djvu/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न प्रद्र्यन्ते पूर्वोक्तदिशा सुधीभिः स्वयमूहितुं शक्यत्वात् । ३ द्वितीया ध्यायद्वितीयवली ९-११ मन्त्रस्था विचाराः परिणततत्त्वस्य वेदान्तस्य बोधकाः । ४ प्रथमाध्याय कथा सुसंगता केवलं तत्रत्याः केचित्प्रक्षिप्ता भागास्त्याज्याः । १ द्वितीयाध्याये ‘एतद्वै तत्’ इति द्वादशवारमुपलभ्यते । तच ‘तत्वमसि’ इति छान्दोग्यवाक्येन समानार्थकं तेन द्वितीयाध्यायग्रथने छान्दोग्यानुकरणेच्छा प्रबलासीत् । ६ द्वितीयाध्याय ॐकारस्योपासना समाम्रायते । सा च पश्चातनी यतोऽथर्ववेदे ॐकारोपासनाया विस्तरस्तेन द्वितीयोऽध्यायोऽथर्ववेदीयः । वेबरमहाभागोऽप्येवं वक्ति । यत् प्रथमा ध्यायात्मिकोपनिषद्यजुर्वेदस्था । प्रथमद्वितीयाध्यायात्मिका त्वथर्ववेद्गता । मया पुस्तकद्वय लव्ध यत्रास्या उपानषदाऽथववदगतत्व स्पष्ट नदश्यत । तच पुस्तकद्वयं (India, offic४) इत्यत्र वर्तत इति । ७ प्रथमाध्याय द्वितीयवल्लीपञ्चममन्त्रे पण्डितं मन्यमानाः' इत्यादिरूपिणी निन्दा क्रियते । सा च प्रतिवादिषु जीवत्सु संभवति । यथा चार्वाकनिन्दा तत्समकालभाविनीषु भगवद्भीतासु दृश्यते । द्वितीयाध्याये तु तादृशी निन्दा नास्ति । तेन निन्दा प्रयोजनं प्रतिवादिस्थितिरूपं द्वितीयाध्यायग्रथनसमये नासीदिति प्रतीयते । अतः कालपार्थक्यबोधकप्रयोजनभेदादपि द्वितीयोऽध्यायः पश्चात्तनः । पण्डितंमन्यमाना इत्यधिक्षेपवचनस्वारस्यादप्येवं वतुं शक्यते यद्स्य प्रथमा ध्यायस्य कालः प्राचीन इति । ८ तद्विष्णोः परमं पदम् । ऋ. १॥२॥२२॥ २०॥२१ इति वाक्यमृग्वेट्रस्थं प्रथमाध्याय उद्धृतमत ऋग्वेदसंस्कारघटि तत्वात्प्रथमोऽध्यायः प्राचीनतर इति । एवं कारणमालां प्रदश्यभ्यां पण्डिताभ्यां द्वितीयाध्यायस्य पश्चात्तनत्वं स्थापितम् ।। परमेतन्न विचारसहम् । यत इयं हि वैदिकी परिपाटी । यत्पूर्व कोऽप्यर्थः सामान्यतया वण्यैते ततः स एव मन्दश्रोतबोधायोपमानादिपूर्वकं विस्तरेण बोध्यते । सुस्पष्ट चैतत् ‘तत्त्वमसि’ ‘अहं ब्रह्मास्मि' इति महा वाक्यवर्णनादिषु । एवं चात्रोपनिषदि प्रथमाध्याये संक्षेपतः श्रेय:प्रेयसी वर्णिते । ततो द्वितीयाध्याये विद्याविषयकाङ्गोपाङ्गादिघटिते ते एव श्रेय प्रेयसी विस्तरशो वर्णिते । तेन द्वितीयाध्यायस्य पश्चात्तनत्वकथनं श्रुति परिपाटयनभिज्ञताविलासितमित्येव संप्रति बूमः । विप्रतिपन्नपण्डितदर्शि तानां कारणानां नि:सारत्वमेवास्या विप्रतिपत्तेर्नि:सारताद्योतनायालमिति प्रतीमश्रध