पृष्ठम्:काठकोपनिषत्.djvu/१७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१५७ काठकोपनिषद्भाष्यद्वये २।२।२ २ । २ । २ [ शांकरभाष्यम्] [ पृ. ७० ] ननु वेदीशब्देन चतुरङ्गुलखाता भूमि- रुच्यते श्रौतादौ । अत्र वेदीशब्देन पृथ्वी गृह्यते तत्कथमत आह-इय- मिति । या यज्ञे प्रसिद्धा वेदिः सा पृथिव्याः परोऽन्तः परस्वभाव इति वेद्याः पृथिवीस्वभावत्वकथनात्पृथिवी वेदिशब्दवाच्या भवतीत्यर्थः । ननु ब्राह्मणोक्तार्थविरुद्धमिदं व्याख्यानं तत्र ’ असौ वा आदित्यो हंसः ’ इति व्याख्यातम् । ब्राह्मणं च श्रुतेः प्राचीना व्याख्या तदंनुसारमेव श्रुतेरर्थः कर्तव्य इत्याह-यदापीति | ’सूर्य आत्मा जगतस्तस्थुषश्च । इति मन्त्रा- न्मण्डलेोपलक्षितचिद्धातोरिष्यत एव सर्वात्मत्वमित्यर्थः ॥ २ ॥ २ । २ । ३ [ शांकरभाष्यम् ] [ पृ. ७१] यदर्था इत्यादि । सर्वे प्राणकरणव्या- पाराश्चेतनार्थास्तत्प्रयुक्ताश्च भवितुमर्हन्ति जडव्यापारत्वाद्रथादिव्यापारवत् ३ २ । २ । ४ [ शांकरभाष्यम् ] शरीरं चेतनाङ्गं तद्विगमे भोगानर्हत्वाद्राजपुरवदि- . त्याह-किं चेति । विद्रवणं—पलायनम् । पुरस्वामिनो निर्गमे यथा पौरा अन्यत्र गच्छन्ति तद्वदित्यर्थः । हतबलमिति । चेतनारूपं संघातस्य बलं तच्छून्यम् ॥ ४ ॥ २ ॥ २ ॥ ५ [ शांकरभाष्यम् ] स्यान्मतमिति । एवं यदि तव मतं स्यादित्यर्थः । [ पृ. ७२ ] ’ जीव प्राणधारणे ' इति धात्वर्थानुसारं शरीरस्य जीवनं नाम प्राणधारण प्राणसयोगक्ष्च प्राणधारण कुण्डे दधिरणवत्तत्र च प्राणस्यैव हेतुत्वं संयोगाश्रयत्वात्कथमुच्यते जीवनहेतुत्वं प्राणादीनां न संभवतीति चेत्तत्राह-स्वार्थेनासंहतेनेति । इमामन्यथासिद्धिं परिहरति- नैतदिति । संहत्यकारित्वादिति । लोके ह्ययं नियम । ये संघातेन कार्यं कुर्वन्ति ते परप्रयुक्ताः परार्थाश्च भवन्ति यथा स्वामिकार्यकारिणो बहवो भृत्याः । अचेतनतां द्योतयितुं गृहादीनां वा दृष्टान्तो ग्राह्यः । अन्यः सिद्ध इति । प्राणापानादेः प्रयोजकः कोऽप्यतिरिक्तः सिद्ध इत्यर्थः ॥ ५ ॥