पृष्ठम्:काठकोपनिषत्.djvu/१७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२।१।१२ बालबोघिनी १५४ व्यस्तदनुरोधेनान्येषां तदनुसारिवाक्यानामर्थः कर्तव्यस्तथा चात्रोपक्रमे जीव- वाक्यं तदनुसारं भूतभव्येशित्वं लापनीयमर्थाजीवेन येषां नियामकत्वं संभ- वति तादृशा एव पदार्था भूतभव्यपदेन ग्राह्याः । एवंच भूतभव्येशानत्वस्य जीवानुकूलं संकोचः कर्तव्य इति भावः । उत्तरपक्षी खण्डयति- -न शब्दादे वेत्यादि । असंकुचितेत्यादि । असंकुचितं जीवपरत्वेन संकोचं न प्रा- पितं यद्धूतभव्येशितृत्वं तद्रह्मणो लिङ्गं चिन्हं, इदंहेि चिन्हमनन्यथासिद्ध- मर्थादन्यथासिद्धिरहितम् । अयं भावः । अङ्गुष्ठमात्रपदेन क्ष्वेताश्वतराघु- क्त्या ब्रह्मणो ग्रहणे भूतभव्येशितृत्वं तत्रैव संगच्छते । जीवादिपरतया तन्नैव संगच्छेतेत्यर्थेः । उपक्रमस्यासंजातविरोधित्वेन जीवसाधकत्वमित्यपि न । तैतिरीयकश्चेताश्वराद्युक्त्या तस्याङ्गुष्ठमात्र इतिपदस्य परमात्मपरत्वात्। शांकरभाष्योक्तार्थ दूषयति--यत्विति । आराग्रमात्रतयेति । ’ आराग्र मात्रो ह्यवरोऽपि दृष्टः ’ इति श्रुते । व्यासार्यैरिति । ‘शब्दादेवं प्रमित ब्र. सू. १।३।२४ इति सूत्रस्थस्य श्रीभाप्यस्य व्याख्याने व्यासार्यपण्डितेन ईश्वरः शर्व ईशानः' इति निघण्टुपाठाद्देवता विशेषवाचको हीशानशब्दः शब्दादेवेति शब्दपदेनादृतः । तेन जीवस्य व्यावातिः कृता यतो जीवे कर्मवशे सर्वेशितृत्वं न संभवतीति । अत्रैवं शंका-निघण्टुपाठे देवताविशेषे रूढोऽयमीशानशब्द इति पठितं तेन यथा जीवव्यान्तवृक्त्तिस्तथा नारायणस्या- पि व्यावत्ति: स्याद्यतो नारायणवाचकत्वमीशानशब्दस्य निघण्टौ नास्ति । तेन नारायणस्यैव सर्वेशितृत्वं न रुद्रादेरिति वैष्णवाभिमतं मतं विहन्येते- ति । एतां शङ्कां स्वमतेन निराकरोति--न योगरूढिमत इति । अयं भावः । योगरूढं पदं पङ्कजादि तत्रावयवार्थे गौणं कृत्वा रूढयर्थभूतं कम- लादिरूपं मुख्यं स्वीकुर्वते । परं त्वेतादृशेऽपि पदे योगरूढेराधिक्यं नाङ्गी कार्येः: यदि तत्संनिधाववयवार्थद्योतिपदान्तरं स्यात् । अत्र दृष्टान्तः । पद्मानि यस्याग्रसरोरुहाणत्यिादि । अत्र सरोरुहपदं योगरूढं सरसि रोह- तीति योगस्यात्र संभवात् । तथा सरोरुहपदस्य कमले रूढिश्च । परमत्र रूढिर्गृहीतुं न शक्यते । अत्र ’ अग्रसरोरुहाणि ' इति पदं, सरोरुहपदेन रूढिप्राधान्यात्कमलार्थस्वीकारेऽग्र इत्यस्यार्थो न संभवेदतोऽयमर्थः । अग्रे पुरोभागे यानि सरांसि सरोवराणि तत्र रोहन्ति प्रादुर्भवन्तीत्यवयवार्थ एव ग्राह्यः । किंच रूढार्थपरिग्रहे पद्मानीति पुनरुक्त्तं स्यात् । एवं चात्रोदाह- रणे रूढार्थस्य त्याग । एवं दार्ष्टान्तिके ’ ईशानो भूतभव्यस्य ' इति