पृष्ठम्:काठकोपनिषत्.djvu/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रामैषां परस्परमतवैरुध्यमपहाय विमर्शः । तस्मिन्नङ्गीकृत एवं सिद्धान्तयितुं शक्यते यदियं ‘एतेषां मन्त्राणामभावे न काचिदर्थन्यूनता' इतिरूपा विचारसरणिर्न साधीयसी यतः-बालकं पुनः पनस्तमेवार्थ बोधयन्ती जननी यथा न पुनरुक्तिदोषभाक्तथा जामितादोषाभावाच्छति जनन्या विस्तराथै प्रवर्तिते ग्रन्थजाते सर्वत्रैव तथा वतुं सुशकम् । यथा पण्डितम्याक्स्मुलरेण तथास्माभिरप्यस्मिन्नेव प्रकरणे १॥१॥२९ इत्यत्र शङ्कयते यदयं मन्त्रो न स्याच्चेत्तर्हि का क्षतिः । तथा चाथधिक्याभावा दयं मन्त्रोऽपि प्रक्षिप्तः । यतस्तत्र चतुर्विशतितममंदार्थस्यैव विस्तरो नान्य त्किचित् । न केवलमेकद्वित्रादिमन्त्रविषय एव केिन्तु यदि म्याक्स्मुलरपण्डि तेन प्रथमाध्यायतृतीयवली निखिलापि प्रक्षिप्ता’ इत्युक्तं स्यात्तदपि तद्वि चारमरणया शोभेतैव । यतस्तया निखिलवल्या विना प्रवाहमाप्तम्य प्रधानार्थस्य न काचिन्न्यूनता । ततोऽर्थापत्तिवशात्कारुणिकश्रुतिस्वाभाव्यमा लोच्ष चैवं विचारसरणिरादेया यत् ‘अनेन म श्रेणाधिकेन सता का क्षति नतु तदभावे का क्षतिरिति'। तथा च मीमांसायामङ्गीकृतायां विवादास्पदीभूत मन्त्रेषु सत्सु न कापि क्षतिः प्रत्युत श्रुतेिवाभान्यानुसारं पूर्वोक्तार्थस्य विस्तरशो वर्णनम् । पुनरुक्तिदोषः श्रुतौ न पद्माद्धातीतेि जननीदृष्टान्तेन पूर्वमेक्तमेव १॥१॥ १९ इत्यत्र छन्दोभङ्गमगणयित्वापि तवैवेति पदद्वयं प्रक्षिप्तमित्यादिकं तु दुरुक्तम् । यतो १।१।१९ मन्ते तवैवेतिपदयोरभावे न कोऽप्यर्थस्तस्यावशिष्टभागस्य स्यादिति सुधियो विभावयन्तु । अस्यामुप निषदि बहुषु स्थलेषु छन्दोभङ्गदोषस्योपलभ्यमानत्वादत्येन तेन दोषेण प्रक्षेपादिकल्पनं मुधापाण्डित्यस्य द्योतकम् । तयैव १।१।१४ मन्त्रं १।१।४ मन्त्रं च प्रक्षितं मनुते वेबरमहाभागः । तस्यापि पूर्वेतैव द्वयी गतिः । तेन न कोऽप्यत्राल्पांशेनापि प्रक्षेप इति दृढं विश्वसेिम: । ३ अस्या उपनिषदः पूर्वमेक एवासीदध्यायः पश्चाद्भद्वितीयः केन चिन्निरमायि । इयं विप्रतिपतिरेव विचारणीयांशमूर्धन्यतामाप्तोति । यत पण्डितैरधुनातनैः सिद्धान्तत्वेनैवास्या ग्रहणं क्रियते । अतः परद्वीपस्थ मतानुसारं कारणमाला सविमर्श पूर्व प्रदर्शयेते । ततोऽस्मन्मतानलारमेतस्या विप्रतिपत्तेरसांगत्यं प्रदइर्यते । वेबरपण्डितमतेनात्र या कारणमाला निर्दिष्टा सा प्रदश्र्यते । तथाहि-१ ब्रह्मजज्ञमिति पदं प्राचीनं नाधुनिकभाषायां संभ वति । तच प्रथमाध्याये दृश्यते । द्वितीयाध्याये तादृशप्राचीनशब्दाभाव