पृष्ठम्:काठकोपनिषत्.djvu/१५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१३३ काठकोपनिषद्भाण्यद्वये १।२।१३ दत्यस्मिन्निति संप्रसादः स्वापस्तदपलक्षितो जीव: जनक्षत्- भक्षयन् ब्रह्मजज्ञमित्यादिश्रत्यैकवाक्यतापन्नत्वाय जीवपरत्वं व्याख्यायतामिति पूर्व- पक्षमाह-नन्विाति । ब्रह्मजज्ञमिति मंत्रेऽसंजातविरोधित्वेनोपक्रमानुसार- मुपसंहारस्य लापनीयत्वात् देवशब्दस्य देवात्मकमित्यर्थो गृहीतः परंतु तं दुर्दर्शमिति मंत्रे जीवलिंगस्योपक्रमेऽभावाद्देवशब्दस्य देवात्मकं इत्यर्थग्रहण- मशक्यमिति मत्वोत्तरमाह-नेत्यादिना [ पृ. ३३ ] गव्हरेष्ठमिति पदे- नेति । यथा गव्हरान्तस्थं वस्तु दुर्विज्ञेयं तथा परमात्मवस्त्वित्यर्थः । ननु तर्ह्यभयमंत्रयोरेकवाक्यता कथं स्यात्तत्राह-इयांस्तु विशेष इति । जीव- शरीरकेति । जीवः शरीरं यस्येति बहुव्रीहिः ॥ १३ ॥ १ । २ । १४ [ शाङ्करभाष्यम् ] यदि देहव्यतिरिक्तात्मज्ञानमेव श्रेयःसाधनं तर्हि तदेव ब्रूहीत्याह--यद्यहमिति । अत एव वरदानव्यतिरेकेणायमपूर्वः प्रश्न इति नाशंकनीयं, यतो येयं प्रेत इत्यादिना पृष्टस्यैव देहव्यतिरिक्तस्यात्मनो याथात्म्यं, ॐकारोपासनादिरूपं ज्ञानसाधनं च वक्त्तुं स एव प्रश्नः । शास्त्री- यादिति । चैत्यवन्दनादौ धर्म्यप्रसिद्धिस्तां वारयितुमिदम् । धर्मपदं तत्फल- तत्कारकादीनामुपलक्षणमित्याह-तत्फलादित्यादि ॥ १४ ॥ [ प्रकाशिका ] श्रीभाष्यगतपूर्वापरवाक्यविरोधं परिहरत्यनुवादपूर्वकं-- नन्विाति । [ पृ. ३४ ] उपेयः- प्राप्यः । विवक्षित इति । साधका- दन्यत्रेत्यर्थः । अन्यत्रशब्दवैयर्थ्यमिति । चतुर्थस्यान्यत्रशब्दस्य वैयर्थ्य- मित्यर्थः । कालत्रयपरिच्छिन्नतयेति । कालत्रय एवोपायः संपादयितुं शक्यत इति भावः । तन्त्रेण—एकत्वविवक्षया । अन्तर्भावश्रेति । सोऽपि प्रक्ष्नोऽत्रैवान्तर्भावयितुं शक्यत इत्यर्थः । [पृ.३५] अन्यत्रशब्दयुगद्वयस्येति। अन्यत्रेतिशब्दयोर्युगं युगलं तादृशायुगयोर्द्धयं द्वे युगे । एवं चान्यखशब्दच- तुष्टयमित्यर्थः । प्रतिवचनादर्शनादिति । उपायात्मकेोत्तरादर्शनात्। विशेष्यप्रक्ष्ने पृष्टे तदुत्तरे विशेषणगतं विशेषं दृस्ट्वा न कोऽपि प्रक्ष्नगतं उत्तरगतं वा विशेष्यं सविशेषं मनुत इति दृष्टान्तपूर्वकं प्रतिपादयति-अस्ति किमित्यादिना । चम्पकालंकृतनिष्कृत्वमिति निष्कुटं-बहिद्वरम् । निष्कुटद्वारोपान्तप्रधानकत्वमिति । निष्कुटं-द्वारं तथा द्वारोपान्तप्रदे- शस्तन्मुख्यत्वं तत्प्रक्ष्ने न कश्चिदभ्युपैति । अविरोध एव सामानाधिकरण्य- स्य मूलमिति सदृष्टान्तं प्रदर्शयति--नीलो दीर्घ इत्यादिना [ पृ. ३६]