पृष्ठम्:काठकोपनिषत्.djvu/१५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१।२१।१० बालोधिनी १३२ चितो लोकः क्षीयत इत्यादिश्रुत्यास्यापि फलस्यानित्यत्वं तथापि यज्ञान्तर- दृष्टया सापेक्षमस्य नित्यत्वम् । यज्ञान्तरफलमल्पकालस्थायेि । अस्य फलं तु तदपेक्षया किंचिदधिककालस्थायेि । नतु चिरन्तनमिति भावः ॥ १० ॥ १ । २ । ११ [ शांकरभाष्यम् ] हिरण्यगर्भपदपर्यन्तं विरक्तस्य ब्रह्मविद्यायाम- धिकार इति दर्शयितुं नचिकेतसं स्तौति-त्वं त्विति । [पृ.३१ ] क्रतोः--- हिरण्यगर्भोपासनाया ।॥ ११ ॥ [ प्रकाशिका ] [पृ. ३१] कामस्याप्तिमित्यादि सर्वे परमात्मनि योज्य- मिति मत्वा पक्षान्तरमाह-यद्वेति ॥ ११ ॥ १ । २ । १२ [ शाङ्करभाष्यम् ] य आत्मा देहव्यतिरिक्ततया त्वया पृष्टः तस्यैव ज्ञानं संसारनिवृत्तिपूर्वकं परमानन्दावाप्तिसाधनं भवति नातः परं श्रेयःसाधन- मिति पृष्टवस्तुप्रशंसाद्वारा प्रष्टारं स्तौति —यं त्वमिति । अतिसूक्ष्मत्वा- दिति । परमसूक्ष्ममाकाशं तस्यापि कारणत्वादतिसूक्ष्मत्वमस्य । प्राकृते- त्यादि । प्राकृतविषयाः शब्दाद्यस्तद्विकारविज्ञानैः । ननु महीयस आत्मनो बुद्धौ स्थितिः कथमत आह--तत्रोपलभ्यमानत्वादिति । अधि- गमेन-प्राप्त्या । समाधानमिति। विषयप्रवृत्तिनिरोधं कृत्वा सम्यक्स्थापन- मित्यर्थः । उत्कर्षापकर्षयोरभावादिति । हर्षः स्वोत्कर्षेण परापकर्षेण च भवति तथा शोकः स्वापकर्षेण परोत्कर्षेण च भवति । ज्ञानिनश्चोत्क- र्षापकर्षौ न संभवतोऽतस्तस्य हर्षशोकावपि न स्त इत्यर्थः ॥ २ ॥ [ प्रकाशिका ] तिरोधायकं—आच्छादकम् । लाभालाभौ–प्राप्त्य- प्राप्ती ॥ १२ ॥ १ । २ । १३ [ शाङ्करभाष्यम् ] [ पृ. ३२ ] आचार्यप्रसादादिति । आचार्यवा- न्पुरुषो वेदेति श्रुत्यनुसारमाचार्यादेव विद्याग्रहणं कर्तव्यं न स्वतंत्रतयेत्यर्थः । आत्मभावेन परिगहोति । श्रतब्रह्मणो मननेन दृढतां संपद्येत्यर्थः । मत्यै इति । प्रायेण मनुष्याधिकारत्वाच्छास्त्रस्येति मर्त्यग्रहणम् । पृथक्- कृत्येति । निदिध्यासनद्वारा । प्राप्य-साक्षाल्लब्ध्वा । ब्रह्मसद्येति ब्रझैव सद्म न तु ब्रह्मणः सझैति विग्रह ॥ १३ ॥ [ प्रकाशिका ] [पृ. ३२] देशविशेषे-बुद्धौ । संप्रसाद इति । संप्रसी-