पृष्ठम्:काठकोपनिषत्.djvu/१५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२९ काठकोपनिषद्भाष्यद्वये १।२।५ लेखकप्रमादात् । भाजनशब्दस्याजहालिङ्गत्वात् । अन्तरे—मध्यदेशे । वेष्टय- मानाः-बध्यमानाः । पुत्रेत्यादि । पुत्रपश्वादिविषयिण्यस्तृष्णास्ता एव पाशशतानि । धीराः—लौकिकशास्त्रीयप्रज्ञावंतः । एतदेवाह-प्रज्ञावन्त इत्या- दिना | ’ नंत्य कौटिल्ये गतौ ' पा. सू. ३।१।२३ इत्यनेन गत्यथकस्य धातोः कौटिल्यरूपार्थ एव यड्लुगन्तः प्रयोगस्तदेतन्मत्वाह—कुटिलामि- त्यादि । अनेकरूपां-उत्तरायणादिरूपाम्। गतिं-मार्गम् । रोगः:धातुवैषम्यम्। रोगादीत्यादिशब्देन मन:पीडादिग्रहणम् । विषमे-कण्टकगर्तादिसहिते । अनर्थ-कण्टकतोदनगर्तपतनादिरूपम् ॥ ५ ॥ [ प्रकाशिका ] निन्दतीति । विद्यायां प्रवेश एवाविधानिन्दायाः प्रयो- जनम् । वर्णयन्तीति । अयमर्थो धात्वर्थदृष्टया न संगत इत्यस्वरसं बोध- यति-केचित्वितिपदेन ॥ ५ ॥

१ । २ । ६

[ शांकरभाष्यम् ] अत एव पूर्वोक्तपण्डितम्मन्यत्वादिकारणवशात् । संपराय इति । परा परे काले देहपतनानन्तरं सम्यगीयते गम्यत इत्यर्थः। [ पृ. २८ ] तत्प्राप्तिप्रयोजन इति । तस्य परलोकस्य प्राप्तिः प्रयोजनं फलं यस्येत्यर्थः । सांपराय इत्यस्य विशेषणम् । साधनविशेष:-ॐभ्कारध्या- नादिरूपः । शास्त्रीयः-वेदोक्तः । अविवेकिनमिति। पुत्रपश्वादिष्वासक्तमन- स्त्वादविवेकः । वित्तमोहेनेति । वित्तनिमित्तो मोहो वित्तमोह इति शाकपा- र्थिवादित्वात्समासः । मूढमिति वित्तार्जनादौ संसक्तचेतस्त्वेनाविवेकिनमित्यर्थः। एकदा जायमानस्य पुनः पुनर्यमवश्यतानुपपन्नेत्याह-पुनःपुनर्जानित्वेति । प्रबन्धः-प्रवाहः । प्रायेणेति । केचिदेवोपनिषज्ज्ञाने प्रवर्तन्त इति भावः ॥ ६ ॥ [ प्रकाशिका ] [ प. २८ ] विषयाशावशीकृतमनोरथमितेि । सर्वेऽपि तस्य मनोरथा विषयविषयका एवेत्यर्थः । मत्क्रियमाणेति । मया प्रेर्यमाणा या यातनेत्यर्थः । उपपत्तिर्द्रष्टव्येति । एतन्मते जगतः सत्य- त्वादयं लोको नास्तीति कथमिति चेत्सत्यम् । अस्य लोकस्य मिथ्यात्वा- भावेऽपि शिष्टैरपरिग्रहात्तथोक्तिः ॥ ६ ॥ १ | २ | ७ [ शांकरभाष्यम्] बहुजन्मार्जितसुकृतासादितशुद्धबुद्धिर्वैराग्यादिसंपन्नो यो नचिकेत:मदृशो ब्रह्म प्रत्यक्त्वेन जानाति स पुरुषः सहरत्रेष्वपि कश्चिदेव भवतीत्याह--यस्त्विति । अभागिन इति । असंस्कृतबुद्धिमत्व