पृष्ठम्:काठकोपनिषत्.djvu/१४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२५ काठकोपनिषद्भाष्यद्वये १।१।२३ [ प्रकाशिका ] [ पृ. २२ ] दुरधिगमतया-दुर्ज्ञेयत्वात् । नंक्ष्यतीति । आत्मज्ञानाद् भ्रष्टो भवादित्यर्थः ॥ २३ ॥ १ । १ । २४ [ शांकरभाष्यम् ] एधीति । अस्भुवीतिधातोर्लोण्मध्यमपुरुषेकवचनम् । तत्कर्तृपदमाह-राजेति । दिव्यानामिति । रंभोर्वशीकल्पवृक्षकामधेन्वादयो दिव्यकामाः । स्रक्चन्दनवनितादयो मानुषकामाः । कामभागनमिति । काम्यन्त इति कामा विषयास्तद्रागिनं तदुपभोगसमर्थमित्यर्थः । विषयसत्वेऽपि शरीरादिसामर्थ्यभावात्तदुपभोगसामर्थ्य बहूनां न दृष्टम् । ननु प्रारब्धकर्माभावे भोगदाने कुतस्तव सामर्थ्यमत आह-सत्यसंकल्प इति । तदपि सत्य- संकल्पत्वं कुत इत्याह-देव इति। देवत्वमप्रतिहततेजोवर्यिबलसंपन्नत्वम् ॥ २४ ॥ १ । १ । २५ [ शांकरभाष्यम् ] [ पृ. २३ ] वादित्रं-हस्तवाद्यम् । काकदन्तपरी- क्षारूपमिति । काकस्य कति वा दन्ता मेषस्याण्डं कियत्पलम् । गर्दभे कति रोमाणीत्येषा मृर्खविचारणेत्युक्तेर्विफला काकदन्तपरीक्षा तद्वदेतादृशप्रश्नोऽपि निरर्थक इत्यर्थः ॥ २५ ॥ [ प्रकाशिका ] [ पृ. २३ ] ननु मरणशब्दस्य मुक्तिवाचकत्वं कथ- मित्यत आह-मरणशब्दस्येति । येयं प्रेते विचिकित्सेत्यादिनोक्तत्वान्नेदं प्रकरणं मरणस्य किन्तु मुक्तस्तदनुरोधात्तादृशार्थकरणं न दोषावहमिति भाव ॥ २५ ॥ १ । १ । २६ [ शांकरभाष्यम्] महा-हदः-अगाध-हदः । अक्षोभ्य इति । विषयैरन- तिक्रमणीयचेता इत्यर्थः । वैराग्यसंपन्न इति यावत् । क्ष्वोभावा इति अनि- त्या इत्यर्थः । किंचानित्या अपि ते विषया: स्वास्थतिदशायां पुरुषं नोप- कुर्वन्ति । किन्तु इन्द्रियतेजःक्षयद्वारा तदनपकारिण एवेत्याह--किंचेति । धर्मः-इष्टापूर्तादिः। वीर्ये-बलम्। प्रज्ञा-शास्त्रार्थालोडनशक्ति । तेजः–प्रा- गल्भ्यं त्वगतकान्तिर्वा। क्षपयितृत्वादिति । विनाशकत्वादित्यर्थः। चापीति समुच्चये । ब्रह्मणोऽपि-हिरण्यगर्भस्यापि । हिरण्यगर्भयुपि सर्वायुषामन्त- र्भावात् । दीर्घजीविका-दीर्घजीवनम् ॥ २६ ॥ [ प्रकाशिका ] त्वदुपन्यस्ताः—त्वया निर्दिष्टाः । सर्वेन्द्रियदौर्बल्यावहा सर्वेन्द्रियकार्श्यकारिणः ॥ २६ ॥