पृष्ठम्:काठकोपनिषत्.djvu/१४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१।१।२ बालबोधिनी १२४ मनपेक्षेति भावः । स्वयूथ्यमतमनुवदति-केचित्विति “पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ' ब्र.सू.२।३।५ इति ब्रह्मसूत्रस्थतिरोहितमित्यस्य तिरो- धानं प्राप्तमित्यर्थः । उपसर्जनतया-गौणत्वेन । तदेव तिरोधानं देहयोगाद्वा सोऽपि ' इत्यग्मिसूत्रे सोऽपीति पुंलिङ्गघटिततच्छब्देन परामृश्यते । अन्यत्रापि गुणीभूतस्य परामर्शो दृश्यत इत्याह-गुहां प्रविष्टावित्यादि । गुणीभूतस्य परामर्शे प्रमाणमाह--सर्वनान्नेत्यादि । अयंपदेन-नायमस्ती- त्ययंपदेन । व्याहतार्थकं-मम जननी वन्ध्येतिवद्याघातयुक्तम् । [पृ. २१] चरमशरीरवियोग इति । अयं चरमशरीरवियोगो ब्रह्मरूपाविर्भावात्पूर्व- मस्ति नवेति संशयस्य सुखेन प्रतिपादयितुं शक्यत्वादित्यर्थः ॥ २० ॥ १ । १ । २१ [शांकरभाष्यम् ] [पृ.२१] देवैरत्रापि विचिाकित्सितमित्यादिकं प्रश्नानर्ह- मुत्तरं किमर्थे तदाह-किंमयामीति । एकान्ततः –निश्चयेन । अपिशब्दो भिन्नक्रम इति द्योतयति-देवैरपीति । पुरा-सृष्टिकाले । ननु “नाणुरतत्छ्रुतेः" ब्र. सू. २।३।२१ इति सूत्रेणात्मनोऽणुत्वं निषिध्यते तत्कथमणुत्वमत आह- सूक्ष्म इति । दुर्ज्ञेय इत्येवाणुशब्दस्यार्थः । अतोऽन्यं —आत्मनो भिन्नम्। अधमर्णै-धनस्य प्रतिनिवर्त्थमानस्य प्रतिग्रहीतारम् । उत्तमर्ण: –पूर्वोक्त- धनस्य दाता । उत्तमं हि दातुर्कणं यतस्तद्वृध्द्या सहितं प्राप्यते । पूर्वम्य त्वधमं यतो न्यूनं गृहीत्वाधिकं देयं तेन ॥ २१ ॥ [प्रकाशिका] [पृ.२१]पतयालव इति । पतयालुः पतनशीलः । मध्य एव भ्रष्टबुद्धये ज्ञानं नोपदेष्टव्यम् ॥ २१ ॥ १ | १ | २२ [ शांकरभाष्यम् ] अन्विष्यमाणोऽपीति । यद्यपि यमादन्ये ब्रह्मविदः स्युरस्मिल्लोके तथापि विनायासेन लब्धं यमं मुक्त्वा किमित्यन्यत्र गमना- यास इत्यपि बोध्यम् ॥ २२ ॥

१ | १ || २३

[शांकरभाष्यम्][पृ.२२]प्रलोभयान्निति । अयं लोभवशक्ष्चेन्नाधिकारीति बुध्द्या । इस्ती हिरण्यं चेति । जात्येकत्वादेकवचनम् । इन्द्रियपाटवाभावे जीवनस्य नैरर्थक्यामित्यत आह-समग्रेन्द्रियकलापमिति । यावदिच्छसीति। यद्यपि पुरुषायुषं शतसंवत्सरात्मकं श्रुतिनिर्दिष्ट तथापि मद्वरसामथ्र्यात्त्वं यावदिच्छं जीवनं लभस्व ॥ २३ ॥