पृष्ठम्:काठकोपनिषत्.djvu/१४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

११९ काठकोपनिषद्भाष्यद्ववे १।१।१९ प्रकृतिवद्विकृतिः कर्तव्येति न्यायात् । सर्वासां हीष्टीनां दर्शपूर्णमासौ प्रकृ- तिः । शास्त्रदीपिकायामिति । अयं पार्थसारथिमिश्रकृतो मीमांसाशास्त्र- विषयको ग्रन्थः । वैदिकीति । पूर्वोक्ताधिकरण इयं कारिकोपलभ्यते । वैदिकस्य तु कर्मणः कथंभावापेक्षायां वैदिक एवेत्थंभावः शीघ्रमुपतिष्ठते । तदतिक्रमेणानुपस्थितलौकिकग्रहणमयुक्तमित्यर्थः । सर्वत्र वैदिकप्रसिद्धिस्वी- कारे दोषं शङ्कते--न चेत्यादिना । पूर्वपक्षिणो ह्ययमाशयः--यदि लौकिकस्य वैदिके कदापि नैव प्रवेशस्तर्हि लौकिकयूपस्पर्श कथं ’ यद्येकं यूपम् ’ इत्यादिना वैदिकमंत्रेण प्रायश्चित्तं विधीयते । वैदिके प्रायश्चित्ते त्वदुक्तरीत्या वैदिकयूपस्यैवापेक्ष्यमाणत्वात् । तत्रापि वैदिको यूपो ग्राह्य इति वक्त्तुं न शक्यते लौकिके दोषसंयोगादित्यादिना लौकिकयूपग्रहणस्यैव सिद्धान्तितत्वात् । यद्येकं यूपमिति मन्त्रस्यायमर्थः–एकं लौकिकं यूपं स्पृशेच्चेत्कश्चित्तेन ’ एष ते वायो ’ इति मंत्रो जप्यः । नावमिकाधि- करण इति । इदं जैमिनीये नवमाध्याये तृतीयपादे चतुर्थमधिकरणं अग्निषोमीयपशैौ लौकिकयूपस्पर्शप्रायश्चित्ताधिकरणम् ’ इति नाम्रा प्रसि- द्धम् । तदेवं विव्रियते जैमिनीयन्यायमालाविस्तरे—ज्योतिष्टोमेऽग्रीषोमी- थपशुप्रकरणे यूपस्पर्शस्य प्रायश्चित्तमान्नातम् । ’ यद्येकं यूपं स्पृशेत्, ’एष ते वायो ' इति ब्रूयात् इति । तदिदमुच्छूयणाञ्जनादिकालीने वैदिकस्पर्शे भवति । कुतः । तत्प्रकरणादिति चेन्मैवम् । यूपो वै यज्ञस्य दुरष्टमामुं- चते । यघूपमुपस्पृशेद्यज्ञस्य दुरिष्टमामुंचेत् । तस्माद्यपो नोपस्पृशः । इति प्रतिपिध्य पश्चात्प्रायश्चित्ताम्नानात् । प्रतिषेधक्ष्च लौकिकस्पर्शविषयः । वैदिकस्य विहितत्वात् । तस्माल्लौकिके स्पर्शे प्रायश्चित्तम् ॥ इति ॥ यूपो वै यज्ञस्योति । अतः परं समाधानम् । यूपो वै यज्ञस्येत्यादेरयमर्थः । यूपो यज्ञस्य पापमात्मनि स्थापयति तस्माघूपस्पर्शो न कर्तव्यः । प्रतिषि- द्धप्रायश्चित्तेत्यादि । अयमर्थः–प्रतिषिद्धस्य स्पर्शस्य निमित्तेन जाय- मानस्य पापस्य परिहारार्थं प्रायश्चित्तं तच्च साकांक्षंं विषयमाकांक्षते स च विषयो लौकिकयूपस्पर्शः । एवंच तत्रानायत्या लौकिकयूपग्रहणं कर्तव्यं भवति वैदिकविषयत्वाभावात् । तथापि यत्र वैदिकविषयस्य संभवो बाधकं च मास्ति तत्रावश्यं वैदिकप्रसिद्धिरेव ग्राह्या । अत एव . पूर्वोक्तविषये वैदि- कप्रसिद्धिस्वीकारादेव । [ पृ. १८ ] निणीतामिति । इदं जैमिनीये तृती- याध्याये चतुर्थपादे चतुर्दशेऽधिकरणे ’वैदिकाश्वप्रतिग्रह इष्टिकर्तव्यताधि-