पृष्ठम्:काठकोपनिषत्.djvu/१४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१।१।१९ बालबोधिनी ११८ ज्ञानपदेनोपासना ग्राह्या । यतः शंकराचार्याभिप्रायं द्योतयितुमियं पंक्ति- र्लिखिता । तन्मते ब्रह्मज्ञानस्य कर्मणश्च समुचयो न संभवति । परैरिति । शंकराचायैरित्यर्थः[पृ.१७]ब्राह्मणपरिव्राजकन्यायेनेति । ब्राह्मणा भोज- यितव्याः परिव्राजकाक्ष्चेत्यादिवाक्येषु परिव्राजकानां ब्राह्मणान्तर्गत्वेन भोज- यितव्यत्वे सिद्धेऽप्यावश्यकताद्योतनार्थं यथा पुनः परिव्राजकग्रहणं तद्व- त्स्वर्गपवर्गमार्गभ्यामित्यत्र स्वर्गपदेनापवर्गग्रहणे सिद्धेऽप्यावश्यकता- द्योतनार्थ पुनस्तद्ग्रग्रहणम् । अयमेव न्यायो ब्राह्मणवसिष्ठन्यायो गोबलीवर्दन्याय इति च व्यवहियते । विजिघत्सत्वे- ति । अत्तुमिच्छा जिघत्सा विगता जिघत्सा यस्य तद्भावस्तत्त्वम् । श्रुतेि- सन्दर्भेति । श्रुतिगतप्रक्ररणप्रतिपाद्य इत्यर्थः । ब्रह्मगुणाष्टकेत्यादि । अपहतपाप्मत्वविजरत्वाविमृत्युत्वविजिघत्सत्वापिपासत्वविशोकत्वसत्यकाम- त्वसत्यसंकल्पत्वेत्यष्टौ ब्रह्मगुणाः । अत एवेति । वैदिकप्रसिघ्घैव निर्वाहे पौराणिकप्रसिद्धिस्वीकारस्यानुचितत्वादेवेत्यर्थः । विध्यन्ताधिकरण इति । इदं जैमिनीये सप्तमाध्याये चतुर्थपादे द्वितीयाधिकरणं ’ सौर्ये चरौ वैदिके- तिकर्तव्यताधिकरणम् ’ इति नान्ना प्रसिद्धम् । तच्चैवं विव्रियते जैमिनी- यन्यायमालाविस्तरे-तत्र सौर्ये चरावपेक्षितः प्रधानविधेः शेषोऽङ्गकलापः स्थालीपाकादिगतो लौकिको ग्रहीतव्यः । कुतः । अनिबद्धत्वात् । वैदि- कस्तु प्रकरणेन कर्मविशेषे निबद्धः सन्न ततो वियोजयितुं शक्य इति चेन्मैवम् । वैदिके करणे वैदिकविध्यन्तस्य बुद्धिसंनिकर्षात् । यथा प्रक- रणेन कचिन्निबद्धः । तथा चोदकेनान्यत्रापि निबध्यताम् । किंच ’ प्रयाजे प्रयाजे कृष्णलं जुहोति इति सौर्ययागविशेषे कृष्णलहोमविधानाय सिद्ध- वत्प्रयाजोऽनद्यते । तच्च वैदिकेतिकर्तव्यतायां लिंगम् । तस्माद्वैदिको ग्राह्यः ॥ इति ॥ विध्यन्तः–अंगकलाप । अनुपदिष्टेतिकर्तव्यताका- स्विति । यत्रेतिकर्तव्यतानाम कर्तव्यताप्रकारो विहितस्ता दर्शपूर्णमासेष्टय उपदिष्टतिकर्तव्यताकाः । तद्भिन्नास्तद्विकृतिरूपाः सौर्यप्रभृतयोऽनुपदिष्टेति- कर्तव्यताकाः । ताः सौर्याप्रभृतयः कथं कर्तव्या इतीतिकर्तव्यताकांक्षा तत्र भवति । वैतानिकेत्यादि । वितानो नामाग्रीनां विस्तरः । ते चाग्रयः--- गार्हपत्यदक्षिणाग्न्याहवनीयसभ्यावसथ्याख्यास्तत्र भवं वैतनिकं कर्म । अथवा वितानो यज्ञः । वितान एव वैतानिकम् । विनयादित्वात्स्वार्थे ठक् । यज्ञकर्मेत्यर्थः । तच्च त्रय्या वेदत्रयेण विहितम् । उपतिष्ठत इति ।