पृष्ठम्:काठकोपनिषत्.djvu/१३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१७ काठकोपनिषद्भाष्यद्वये १।१।१९ शस्त्रार्थतयोति । स्तुतिः-गीतिविशिष्टं गुणवद्देवतासंबन्धिगुणाभिधानम् । स्तोत्रं स्तुतिरिति पर्यायौ । शस्त्रं-गुणवद्देवतासंबन्धिगुणाभिधानम् । शंसनं शस्रमिति पर्यायौ । स्तोत्रं सामवेदसाध्यम् । शस्त्रमृग्वेदसाध्यम् । अपि त्विति। अत्र ' तु' इति निरर्थकं वाक्यालंकारे वा । पृथुपाजवत्याविति । अस्य वाक्यस्यायमर्थः– ’पृथपाजा ’ ऋ. मं. ३ अ. २ सू २७ मं. ५ ’ तं सबाधो ' ऋ. मं. ३ अ. २ सू. २६ मं. ६ इति ऋग्द्वयं धाय्ये भवतः । समिध्यमानवतीमित्यादि । अस्य वाक्यस्यायमर्थः-समिध्यमान- शब्दघटिता ऋक् समिध्यमानवती ‘समिध्यमानो अध्वरे ’ ऋ. मं.३ अ. २ सू.२७ मं.४ इत्यादिरूपा समिद्धशब्दघटिता ऋक् समिद्धवती ’ समिद्धो अग्रे अहूतः ' ऋ. मं. ५ अ. २ सू. २८ मं. ५ इत्यादिरूपा । एतयो ऋचोरन्तरेण मध्ये धाय्याः कर्तव्याः। पाञ्चामेिकाधिकरण इति । इदं जैमिनीये पञ्चमाध्याये तृतीयपादे तृतीयमधिकरणं ’ सामिधेनीप्वागन्तूनामन्ते निवे- शाधिकरणम् ’ इति नाम्ना प्रसिद्धम् । एतच्चैवं विव्रियते जैमिनीयन्या- यमालाविस्तरे-दर्शपूर्णमासयोः सामिधेनीषु श्रूयते—एकविंशतिमनुब्रू- यात्प्रतिष्ठाकामस्येति । तत्र पठिताः सामिधेन्य ऋच एकादशैव । ’ त्रेिः प्रथमामन्वाह, त्रिरुत्तमाम् ’ इति विधानादावृत्त्या पञ्चदश संपद्यन्ते । अवशिष्टानां षण्णामृचां दशतयीपठितानामागमेन संख्यापूरणं वक्ष्यते तस्य चागन्तोर्मन्त्रस्य सामिधेनीनां श्रूयमाणानां मध्ये निवेशो युक्तः । कुतः । धाय्याशब्दोदितानामागन्तूनां मंत्राणां मध्ये निवेशदर्शनात् । इति चेन्मै- वम् । धाय्यानां मध्यदेशस्य विहितत्वात् । ’ इयं वै समिध्यमानवती असौ समिद्धवती यदन्तरा तद्धाय्या ’ इति क्ष्रूयते । पठितास्वेकादशसु सामिधेनीषु “ समिध्यमानो अध्वरे ' इत्यमावृगष्टमी, ’ समिद्धेो अग्न आ- हुत ' इत्यसै नवमी । तयोर्मध्यं धाय्यानां स्थानम् । धाय्यात्वं च न सर्वेषामागन्तुमंत्राणाम् । किंतु केषांचिदेव । “ पृथुपाजवत्यौ धाय्ये ’ इत्यादिविशेषविधानात् । ’ पृथुपाजा अमर्त्यः ' इत्यादि ऋग्द्वयमित्यर्थः । न च धाय्यानामिवेतरेषामागन्तूनां मंत्राणां पठितसामिधेनीक्रमविच्छेदेन मध्ये निवेशनाय किंचित्प्रमाणमस्ति । तस्मादागन्तूनामन्ते निवेशः ॥ इति । रूढेरकल्पनीयत्वादीति । अस्य सर्वं विरुध्येतेत्यनेन संबन्धः । इति चेदित्यन्तं पूर्वपक्षः । सत्यमित्यादिना समाधानम् । सत्यमित्यर्धाङ्गी- कारे । खण्डयितुं योग्या शंकेत्यर्थः । कर्मज्ञानसमुच्चयेत्यादि । अत्र