पृष्ठम्:काठकोपनिषत्.djvu/११९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

९७ काठकोपनिषद्भाष्यद्वये १।१।१ याख्यानमर्हतीति भाव । उशान्निति । "वशू कान्तौ " इति धातोः शत्रन्तस्य रूपम् । वृत्तार्थस्मरणार्थौ-भूतार्थस्य स्मारकौ । रूढितो वेति । अथवावयवार्थनिरपेक्षं रूढमेव वाजश्रवा इति नाम ग्राह्यमित्यर्थः । सर्व- मेधेन–सर्वस्वदक्षिणाकेनं ॥ १ ॥ [ प्रकाशिका ] अथ श्रीरङ्गरामानुजाचार्यः स्वकृतकठोपनिषद्व्याख्या विशिष्टाद्वैतमतस्य प्रतिपादयितुभ्यो रामानुजाचार्थेभ्यो रोचतामिति तत्स्म- रणात्मकं क्ष्लोकमारचयति-क्षेमायेति । उदारो महामनस्को यो रामानु- जाचार्यः करुणया क्षितिनिर्जराणां भूदेवानां ब्राह्मणानां क्षेमाय कल्याणाय भाष्यसुधां श्रीभाष्यरूपममृतं भूमौ पृथ्वीतले व्यजृम्भयत विस्तारयामास । अमृतं स्वर्गे देवानां कल्याणं विदधाति । इदं श्रीभाष्यामृतं त्वधिकारिणां ब्राह्मणानां सन्मार्गप्रदर्शनेन भूमावपि कल्याणमारचयति । किंच यो वामागमा- ध्वगवदावदतूलवातः-वामाः कुटिलाश्च त आगमाः शास्त्रसिद्धान्ता अद्वै- तादयस्तद्रूपेणाध्वना मार्गेण य गच्छन्ति तादृशा य वदावदा वावदूका- स्तादृशान्वामाञ् शास्त्रविधुरानपि सिद्धान्तान्ये व्याख्यानपाटवेन प्रतिपाद- यन्ति तादृशवादिरूपो यस्तलः कार्पासस्तद्धननाय तत्कम्पनाय वातरूप । तूलं वात इव दुर्वादव्याख्यानकौशलं यो धूनयति खण्डयति स रामानुजो मुंनिर्मदुक्तिं कठोपनिषद्व्याख्यानरूपामाद्रियतां स्वीकरोतु । एतयाव्याख्य- या स प्रसीदत्वित्यर्थः ॥ १ ॥ एवं रामानुजाचार्यं स्मृत्वा स्वाराध्यं हनूमन्तं नमस्कर्तुमाह--अतसी- गुच्छसच्छायमिति । अतसीसंज्ञकपुष्पस्तबकसमानकान्तिम् । अञ्चितो- रस्थलं-भूषितोरस्कम् । अञ्जनाचलशृङ्गारामिति । अञ्जना हनूमज्ज- ननी तन्निवासस्थानत्वात्तदाख्यया प्रथितस्याञ्जनागिरेः शृङ्गारं भूषणभूतं हनूमन्तं ममाञ्जलिगोहतां तस्मै हनूमते नम इत्यर्थः ॥ २ ॥ अधुना व्यासादीन्नमस्कृत्य कठवल्लीव्याख्यानं प्रतिजानीते-व्यासमिति। लक्ष्मणयोगीन्द्र-रामानुजम् ॥ ३ ॥ [पृ.२] काम्यत्वादिति । काम्यकर्मणि दक्षिणादिभिः सर्वैरङ्गैर्यथाशास्त्रं भ- वितव्यम् । कामनाभावे कस्यचिदङ्गस्य न्यूनत्वेऽपि न क्षतिरित्यर्थः । दक्षि- णासादुण्यामिति। सन्गुणो यस्य स सद्गुणः । तस्य भावः साद्गुण्यं दाक्षि- णया साद्गुण्यमिति विग्रहः । इत्यादिवादिति । स्वस्तये ताक्ष्यैमित्यादि वाक्ये यथा लिडन्तस्यास्धातोर्भूभावो भ्वादेशो न तथात्रापीत्यर्थः । यत