पृष्ठम्:काठकोपनिषत्.djvu/११८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१।१।१ बालबोधिनी ९६

भ्यामपहारात् । केन पुनारीिति । उपनिषच्छब्दस्य विद्येति योऽर्थः स किं समुदायशक्त्यावयवशक्त्या वेति प्रक्ष्नार्थः । अर्थयोगेन-अर्थसम्बधेन । उच्यत इति । समाधानम् । अवयवशक्त्योपनिषच्छब्दस्य विद्यायां वृत्ति- रित्यर्थः । दृष्टानुश्रविकेत्यादि । दृष्टाः प्रत्यक्षा इहलोकस्थाः स्रक्चन्दन- वनितादयः । आनुश्रावका : " स्वर्गकामोऽग्निष्टोमेन यजेत " इत्यनुश्रवेण वेदेन ज्ञायमानाः पारलौकिकाः । एवं चोभयलोकजविषयेषु वितृष्णाः क्षया- तिशयादिदोषदर्शनात्तत्रासाक्तिरहिताः । उपसद्य-आचार्योपदेशाल्लब्ध्वा । शीलयन्तीति । साक्षात्कारपर्यन्तं जीवपरमात्मैक्यासंभावनाविपरीतभाव- नादिकं च निरस्यन्तीत्यर्थः । निचाय्येति । तं— आत्मानम् । निचाय्य संशोध्य । मृत्युमुखादिति । जन्ममृत्युरूपसंसारादित्यर्थ । [ पृ. २ ] विशरणरूपमर्थं प्रदर्श्य गतिरूपमर्थमाह--पूर्वोक्तेत्यादि । विरजोऽभू- दिति । अज्ञानरहित इत्यर्थः । अवसादनरूपमर्थं गृहीत्वोपनिषच्छब्दार्थ- माह-लोकादिरिति । भूराद्विलोकानामादिः प्रथमजः । ब्रह्मजज्ञ:- ब्रह्मणो जातो ज्ञो ज्ञाता चेति विशेषणोभयपदः कर्भधारयः । वक्ष्यतीति । अस्यामेवोपनिषदि । स्वर्गलोकाः –यजमानाः । अविद्यादीत्यादि । अविद्याकामकर्मादयो ये संसारहेतवः । तद्विशरणादेरिति । आदिपदेन गत्यवसाद्योर्ग्रहणम् । ग्रन्थमात्रे–केवलग्रन्थे । तादर्थ्येनेति । सोऽर्थ: प्रयोजनं यस्य स तदर्थस्तस्य भावस्तादर्थ्यं तज्जनकत्वेनेति यावत् । तच्छब्दोपपत्तेरिति । स शब्द उपानिषदिति यस्य स तच्छब्दस्तस्य भावस्तच्छब्दत्वं तस्योपपत्तेः संभवादित्यर्थः । आयुर्वै घृतमिति । तज्जनके तच्छब्दस्य प्रयोगो भवतीत्यर्थेऽयं दृष्टान्तो वैदिकः । यथायुर्ज- नके घृत आयुरिति प्रयोगस्तद्वदिति दृष्टान्तार्थः । भक्त्या-लक्षणया । उपनिषच्छब्दप्रयोग इति शेषः । एवमर्थनिर्वचनेन सिद्धं ग्रन्थप्रवृत्तिसाध- कमनुबन्धचतुष्टयमाह--एवमित्यादि । आत्यन्तिकी-मूलकारणनिवृत्तिपू- र्वकं जायमाना । सम्बन्धश्चेति । ज्ञानादीनामिति शेषः । एवंभूतप्रयोज- नेन–संसारनिवृत्त्यादिरूपप्रयोजनेन । करतलेत्यादि । वृक्षे विद्यमानस्या- मलकीफलस्य तिर्यगादिरेषाज्ञानं न तादृशं प्रकटं भवति यथा करतले न्यस्तस्य तस्येति करतलन्यस्तेति दृष्टान्त उक्तम् । यथाप्रतिभानमिति । औद्धत्यनिराकरणार्थमियमुक्तिः । विद्यास्तुत्यर्थेति । अन्यच्छेय इत्यार- भ्योच्यमानायामुपानिषाद्वद्यायां प्रवृत्तिहेतुत्वेनार्थवादरूपेयमाख्यायिका ततो