पृष्ठम्:काठकोपनिषत्.djvu/११७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ क्ष्रीः ॥ अथ कठोपनिषदव्याख्याद्धये बालबोधिनी । प्रणम्य शङ्करं साम्बं कठव्याख्याद्वये मया । छात्राणां सुखबोधाय क्रियते बालबोधिनी ॥ १ ॥ अथ प्रथमाध्यायप्रथमवली ॥ १।१।१ [शाङ्करभाष्यम्] ॐभूधरभूजानिर्विजयते । अथ भगवान् शङ्कराचार्यश्चि- कीर्षितस्य भाष्यस्य निर्निघ्नपरिसमाप्तये यमनचिकेतोनमस्कारात्मकं मङ्गल- माचरति । तेन चाचार्यभक्तिर्विद्याप्राप्त्यङ्गमिति दर्शयति-नम इत्यादिना । ननु न यमो मृत्युर्नमस्कार्यो मारयतीति मृत्युरिति व्युत्पत्या सर्वप्राणिवि- घातकत्वेन दोषास्पदत्वात्तस्येत्याशङ्कां वारयति-भगवत इति । "उत्पत्तिं च विनाशं च भूतानामागतिं गतिम् । वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति ॥ १ ॥ ” इति स्मृतेर्यमस्य प्रत्यक्षीकृतब्रह्मत- त्त्वस्य "यावदधिकारमवस्थितिराधिकारिकाणाम् " ब्र. स. ३।३।३२ इति न्यायेन याम्ये पदे वर्तमानस्य नमस्कार्यता योग्यैव । चिकीर्षितं प्रति- जानीते-अथेति । काठकोपनिषद्वल्लीनामिति । अत्र हेि संपरायविष- यको मृत्युनचिकेत:संवादः । ननु " अत्ता चराचरग्रहणात् ' ब्र. सू. १।२।९ इत्यादिसूत्रैर्बादरायणेन विवृतोऽर्थ एतासां वल्लीनां तेनेदं भाष्य- मकिञ्चित्करमित्यत आह-सुखार्थप्रबोधनार्थमिति । सुखयतीति सुखोऽ- नायासेन ज्ञायमानो योऽर्थस्तद्बोधनार्थम् । सूत्रद्वारा प्रतिपादित एतदर्थो मन्दमतिभिर्दुरूहो भवतीत्यतः स्वातंत्र्येण वृत्तिर्भाष्यरूपा क्रियते । ननु भर्तृप्रपंचादिभिः पूर्वैः कृतैव वृतिस्तयैव गतार्थतेत्यत आह-अल्पग्रन्थेति । भर्तृप्रपंचादिपूर्ववृत्तिषु ग्रन्थबाहुल्यमर्थाल्पत्वमत्र तु ग्रन्थाल्पत्वमर्थबाहुल्य- मिति भावः । अधिकारिसम्बन्धविषयप्रयोजनानि द्योतयितुमुपनिषच्छब्दा- र्थमाह-सदेर्धातोरिति । " षद्लृ विशरणगत्यवसादनेषु' इति धातुपा- ठात्पाणिनीयाद्विशरणगत्यवसादनेति त्र्यर्थकोऽयं धातुः । केिप्प्रत्ययान्त- स्येति । क्किप्प्रत्ययश्च सर्वापहारी । सर्वेषां तदवयवानामित्संज्ञालोपा-