पृष्ठम्:काठकोपनिषत्.djvu/११५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२।३।१९ भाष्यद्वयोपेता ९३ इति काठकोपानिषादि द्वितीयाध्याये तृतीया वल्ली समाप्ता ॥ ३ ॥ ( ६ ) [ शांकरभाष्यम् ] शान्तिः शान्तिः शान्तिरिति त्रिर्वचनं सर्वदोषोपशमना- र्थमित्योमिति ॥ १९ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्य श्रीमदाचार्यश्रीशङ्करभगवतः कृतौ काठकोपनिषद्भप्ये द्वितीयोऽध्यायः समाप्त ॥ २ ॥

[ प्रकाशिका ] वदद्भिस्तान्त्रिकैस्तेषां सर्वेषां ज्ञेयत्वाभ्युपगमात् । न चास्य ज्ञेयत्वमुच्यते । अतो न तन्त्रसिद्धस्येह ग्रहणम् । वदतीति चेन्न प्राज्ञो हि प्रकरणात् । " अशब्दमस्पर्शमरूपमव्ययं तथारसं नित्यमगन्धवच्च यत् । अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तं मृत्युमुखात्प्रमुच्यते” क.२।३।१५ इत्युक्तस्य ज्ञेयत्वमनन्तरमेव श्रुतिर्वदतीति चेन्न । सोऽध्वनः परमाप्नोति तद्विष्णोः परमं पदम् । क. १।३।९ इति प्राज्ञस्य परमात्मनः प्रकरणात्स एवाशब्दमस्पर्शमिति मन्त्रे ज्ञेयत्वेन निर्दिश्यते न तन्त्रसिद्धमव्यक्तम् । त्रयाणामेव चैवमुपन्यासः प्रक्षश्च । अस्मिन्प्रकरण उपायोपेयोपेतणां त्रया- णामेव ज्ञेयत्वोपपन्यास । अन्यत्र धर्मादन्यत्राधर्मादिति प्रक्षश्च दृश्यते नाव्यक्ताद: । महद्वच्च । यथा " बुद्धेरात्मा महान्पर: " क. १।३।१० इत्यत्रात्मशब्दसामानाधिकरण्यान्न तन्त्रसिद्धं महत्तत्वं गृह्यत एवमव्य- क्तमप्यात्मनः परत्वेनाभिधानान्न कापिलतन्त्रसिद्धं गृह्यत इति स्थितम् । अत इयमुपनिषत्सर्वापि परमात्मपरेति त्रिभिरधिकरणैर्निर्णीतम् ॥ १९ ॥ इति श्रीभगवद्रामानुजसिद्धान्तनिर्धारणसार्वभौमश्रीमद्रङ्गरामानुज- मुनिवरविरचितकाठकोपनिषत्प्रकाशिकायां द्वितीयाध्याये तृतीया वल्ली समाप्ता ॥ इति कठवल्लीप्रकाशिका समाप्ता ॥ इति परिसमाप्तेयं भाष्यद्वयोपेता काठकोपनिषत् १ क्षेमाय यः करुणया क्षितिनिर्जराणां भूमावजुम्भयत भाष्यसुधामुदारः । वामागमाध्वगवदवदतूलवातो रामानुजः स मुनिराद्रियतां मदुक्तिम् ॥ १ ॥