पृष्ठम्:काठकोपनिषत्.djvu/१११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८९ २।३।१८ मृत्युप्रोक्तां नाचिकेतोऽथ लब्ध्वा विद्यामेतां योगविाधिं च कृत्स्नम् । ब्रह्मप्राप्तो विरजोऽभूद्विमृत्युरन्योऽप्येवं यो विदध्यात्ममेव ॥१८॥ सह नाववतु । सह नौ भुनक्त । सह वीर्यं करवावहै । [शांकरभाष्यम् ] विद्यास्तुत्यर्थोऽयमाख्यायिकार्थोपसंहारोऽधुनोच्यते—मृत्यु- प्रोक्तां यथोक्तामेतां ब्रह्मविद्यां योगविधिं च कृत्स्त्रं समस्तं सोपकरणं सफल- मित्येतत् । नाचिकेतो वरप्रदानान्मृत्योर्लब्ध्वा प्राप्येत्यर्थः । किम् । ब्रह्म- प्राप्तोऽभून्मुक्तोऽभवदित्यर्थः । कथम्। विद्याप्राप्त्या विरजो विगतधर्माधर्मो विमृत्युर्विगतकामाविद्यश्च सन्पूर्वमित्यर्थः । न केवलं नाचिकेत एवान्योऽपि नाचेिकेतवदात्मविदध्यात्ममेव निरुपचरितं प्रत्यक्स्वरूपं प्राप्य तत्त्वमेवेत्यभि- प्रायः । नान्यदूपमप्रत्यग्रूपम् । तदेवमध्यात्ममेवमुक्तप्रकारेण वेद् विजाना- तीत्येवंवित्सोऽपि विरजः सन्ब्रह्मप्राप्त्या विमत्यर्भवतीति वाक्यशेषः॥१८॥ शिष्याचार्ययोः प्रमादकृतान्यायेन विद्याग्रहणप्रतिपादनानिमित्तदोषप्रश- मनार्थेयं शान्तिरुच्यते —सह नावावामवतु पालयतु विद्यास्वरूपप्रकाशनेन। [ प्रकाशिका ] समभिव्याहृतदेवदत्तसंबन्धिपरामर्शी, एवं पूर्वनिर्दिष्टान्तरा- त्मसंबन्धिपरामर्शी स्वशब्दः । ततश्चायमर्थः । तं जनानामन्तरात्मानं तच्छरीरभूताज्जनशब्दिताच्चेतनात्प्रवृहोद्वविच्य जानीयात् । " जुष्टं यदा पश्यत्यन्यमीशम् " वे ० ४।७ इति श्रुत्युक्तरीत्या धारकत्वनियन्तत्वशे षत्वादिना विलक्षणं जानीयादित्यर्थः । मूञ्जत्तृणविशेषादिषीकां तन्मध्यव- र्तिस्थूलतणविशेषमिव धैर्येण ज्ञानकैौशलेनेति पूर्वेणान्वयः । उक्तोऽर्थः । द्विर्वचनमुपदेशसमाप्त्यर्थम् ॥ १७ ॥ उपसंहरति--नचिकेती मृत्युप्रोक्तामात्मविद्यां यदा पञ्चेत्याघुक्तं योग- विधिं च लब्ध्वा प्राप्य " परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते " छा० ८।३।४ इति श्रुत्युक्तरीत्या ब्रह्म प्राप्याविर्भूतगणाष्टकोऽभूदि- त्यर्थः । अध्यात्मविद्यां योऽन्योऽपि वेत्ति सोऽप्येवमेव नचिकेता इव भवतीत्यर्थः ॥ १८ ॥ शिष्याचार्ययोः शास्त्रीयनियमातिलङ्घनकृतदोषप्रशमनार्थे शान्तिरुच्यते । स विद्याप्रकाशितः परमात्मा । हशब्दः प्रसिद्धौ । नौ शिष्याचार्याववतु स्वस्वरूपप्रकाशेन रक्षतु । विद्याप्रचयद्वारावां सहैव परिपालयतु । यद्वा विक्ष्लेषमन्तरेणानां सहितावेव यथा स्याव तथा पालयत्वित्यर्थः । सनि- यमविद्याप्रदानेन विद्यायाः सामर्थ्यं निष्पाद्यावहै नियमाभावे विद्या निर्वीर्या