पृष्ठम्:काठकोपनिषत्.djvu/११०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२।३।१७ ८८ अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जननां हृदये संनिविष्टः । तं स्वाच्छरीरात्प्रवृहेन्मुञ्जादिवेषीकां धैर्येण । तं विद्याच्छुक्रममृतं तं विद्याच्छुक्रममृतमिति ॥ १७ ॥ [ शांकरभाष्यम् ] इदानीं सर्ववल्लयर्थोपसंहारार्थमाह-अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां संबन्धिनि हृदये संनिविष्टो यथाव्याख्यातस्तं स्वादात्मीयाच्छरीरात्प्रवृहेदुद्यच्छेन्निष्कर्षेत्पृथक्कुर्यादित्यर्थः । किमिवेत्य- च्यते-मुञ्जादिवेषीकामन्तस्थां धैर्येणाप्रमादेन । तं शरीरान्निष्कृष्टं चिन्मात्रं विद्याद्विजानीयाच्छुक्रममृतं यथोक्तं ब्रह्नेति । द्विर्वचनमुपनिषत्परिसमाप्त्यर्थ- मितिशब्दश्ध ॥ १७ ॥ [प्रकाशिका ] मूर्धानमभिनिःसृता । तया नाड्योर्ध्व ब्रह्मलोकं गच्छन्देशविशेष- विशिष्टब्रह्मप्राप्तिपूर्वकस्वस्वरूपाविर्भावलक्षणां मुक्तिं प्राप्नोति। अन्यास्तु नाड्यो विष्वगुत्क्रमणे नानाविधसंसारमार्गोत्क्रमणायोपयुज्यन्ते । विष्वग्वितता ना- डयेोऽन्योत्क्रमण उपयुज्यन्त इति व्यासार्यैर्व्याख्यातम् । इदं च वाक्यं भगवता बादरायणेनोत्क्रान्तिपादे चिन्तितम् । तथाहि-मूर्धन्यया शताधि- कया नाडचा विदुषो गमनमन्याभिरविदुष इति नियमो नोपपद्यते । नाडीनां भूयस्त्वादतिसूक्ष्मत्दाच्च दुर्विवेचतया पुरुषेणोपादातुमशक्यत्वात् । तयोर्ध्व- मायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवन्तीति यादृच्छिकीमुत्क्रा- न्तिमनुवदतीति युक्तमित्येवं पूर्वपक्षे प्राप्ते । “ तदाकाऽग्रज्वलनं तत्प्रका- शितद्वारो विद्यासामर्थ्यात्तच्छेषगत्युनुस्मृतियोगाच्च हार्दानुगृहीतः शता- धिकया” ब्र०सू०४।२।१७ इति सूत्रेण सिद्धान्तितं तस्य चायमथेः । तदोको जीवस्य स्थानं हृदयमग्रे ज्वलनं प्रकाशनं यस्य तदिदमग्रज्वलनं तेनाग्रज्वलनेन प्रकाशितद्वारो भवति । “ तस्य हैतस्य हृदयस्याग्रं प्रद्योतते तेन प्रद्योतेनैष आत्मा निष्क्रामति चक्षुष्टो वा मूर्ध्नो वाऽन्येभ्यो वा शरीरदेशेभ्य " बृ० ४।४।२ इति श्रुतेः । एतावद्विदविद्वत्त्वसाधारणम् । विद्वांस्तु शताधि- कया मूर्धन्ययैव नाड्योत्क्रामति । न चास्या नाड्या विदुषो दुर्विवेचत्वम् । विद्वान्हि परमपुरुषाराधनभूतात्यर्थप्रियाविद्यासामर्थ्याद्विद्याशेषभूततयात्म- नोऽत्यर्थप्रियगत्यनुस्मरणयोगाच्च प्रसन्नेन हार्देन परमपुरुषेणानुगृहीतो भवति । ततस्तां नाडीं विजानातीति तया विदुषो गतिरुपपद्यते । प्रकृत- मनुसरामः ॥ १६ ॥ स्पष्टोऽर्थः । यथा देवदत्तः स्वाच्छरीराद्विलक्षण इत्युक्ते यथा स्वशब्दः