पृष्ठम्:काठकोपनिषत्.djvu/१०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७३ भाष्यद्वयोपेता २।३।८ यं ज्ञात्वा मुच्यते जन्तुरमृत्वं च गच्छति ॥ ८ ॥ न संदृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम् । हृदा मनीषा मनसाऽभिक्लूप्तो य एतद्विदुरमृतास्ते भवन्ति ॥ ९ ॥ यदा पश्चावातष्ठन्ते ज्ञानानि मनसा सह । [ शांकरभाष्यम्] मृतत्वं च गच्छति । सोऽलिङ्गः परोऽव्यक्तात्पुरुष इति पूर्वेणैव संबन्धः॥८॥ कथं तर्ह्यलिङ्गस्य दर्शनमुपपद्यत इत्युच्यते-न संदृशे संदर्शनविषये न तिष्ठति प्रत्यगात्मनोऽस्य रूपम् । अतो न चक्षुषा सर्वेन्द्रियेण । चक्षुग्रे- हणस्योपलक्षणार्थत्वात् । पश्यति नोपलभते कश्चन कश्चिदप्येनं प्रकृत- मात्मानम् । कथं तर्हि तं पश्येदित्युच्यते-हृदा हृत्स्थया बुध्द्या । मनीषा मनसः संकल्पादिरूपस्येष्ट नियन्तृत्वेनेति मनीट् तया हृदा मनीषाविकल्प- येिञ्या । मनसा मननरूपेण सम्यग्दर्शनेन । अभिक्लृप्तोऽभिसमर्थितोऽभि- प्रकाशित इत्येतत् । आत्मा ज्ञातुं शक्यत इति वाक्यशेष । तमात्मानं ब्रह्यैतद्ये विदुरमृतास्ते भवन्ति ॥ ९ ॥ सा हृन्मनीट् कथं प्राप्यत इति तदर्थो योग उच्यते--यदा यस्मि- न्काले स्वविषयेभ्यो निवर्तितान्यात्मन्येव पञ्च ज्ञानानि । ज्ञानार्थत्वाच्छो- [प्रकाशिका] अस्य रूपं स्वरूपं विग्रहो वा व्यापकत्वादेव.संदर्शनविषयेऽ- भिमुखतया न तिष्ठतीत्यर्थः । अथवा दृश्यं । नीलरूपादिकं नास्तीत्यर्थः । अत एव-(नेत्यादि) स्पष्टोऽर्थः । अयमंश “ सर्वत्र प्रसिद्धोपदेशात् " ब्र०सू० १।२।१ इत्यत्र व्यासार्यैः, हृदेति भक्तिरुच्यते मनीषेति धृतिः । "न संदृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम्।” इति पूर्वार्धमेकरूपं पठित्वा “भक्तया च धृत्या च समाहितात्मा ज्ञानस्वरूपं परिपश्यतीह । " इति महाभारत उक्तम् । अभिक्लप्तो ग्राह्य इति विवृत । धृत्या च समाहितात्मा भक्त्या पुरुषोत्तमं पश्यति साक्षात्करोति प्राप्तोतीत्यर्थः । " भक्त्या त्वनन्यया शक्यः " भ० गी० ११।५४ इत्यनेनैकार्थ्यादिति वेदार्थसंग्रहे प्रतिपादितम् । स्पष्टोऽर्थः ॥ ९ ॥ ज्ञायतेऽनेनेति व्युत्पत्त्या ज्ञानानीन्द्रियाणीत्यर्थ । " सप्तगते " ब्र० सू० २।४।५ इत्यधिकरणे व्यासार्यैस्तथा व्याख्यातत्वात् । अध्य- वसायोपेतं मन एव बुद्धिशब्देनोच्यते । अत एव तत्र भाष्यम् । अध्य- वसायाभिमानचिन्तावृत्तिभेदान्मन एव बुद्धयहंकारचित्तशब्दैर्व्यपदिश्यत