पृष्ठम्:काठकोपनिषत्.djvu/१०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२।३।६ कटकोपनिषत् ८२

पृथगुत्पद्यमानाना मत्वा धीरो न शोचति ॥ ६ ॥ इन्द्रियेभ्यः परं मनो मनसः सत्त्वमुत्तमम् । सत्वादधि महानात्मा महतोऽव्यक्तमुत्तमम् ॥ ७ ॥ अव्यक्तात्तु परः पुरुषो व्यापकोऽलिङ्ग एव च । [ शांकरभाष्यम्] कथमसौ बोद्धव्यः किं वा तदवबोधे प्रयोजनमित्युच्यते- इन्द्रियाणां श्रोत्रादीनां स्वस्वविषयग्रहणप्रयोजनेन स्वकारणेभ्य आका- शादिभ्यः पृथगुत्पद्यमानानामत्यन्तविशुद्धात्केवलाच्चिन्मात्रात्मस्वरूपात्पृथ- ग्भावंस्वभावविलक्षणात्मकतां तथा तेषामेवेन्द्रियाणामुदयास्तमयौ चोत्पत्तिप्र- लयौ जाग्रत्स्वापावस्थापेक्षया नात्मन इति मत्वा ज्ञात्वा विवेकतो धीरो धीमान्न शोचति । आत्मनो नित्यैकस्वभावस्याव्यभिचाराच्छोककारणत्वानुपपत्तेः । तथा च श्रत्यन्तरं “तरति शोकमात्मवित् " छा० ७।१।३ इति ॥६॥ यस्मादात्मन इन्द्रियाणां पृथग्भाव उक्तो नासौ बहिरधिगन्तव्यो यस्मा- त्प्रत्यगात्मा स सर्वस्य तत्कथमित्युच्यते—इन्द्रियेभ्यः परं मन इत्यादि । अर्थानामिहेन्द्रियसमानजातीयत्वादिन्द्रियग्रहणेनैव ग्रहणम् । पूर्ववदन्यत् । सत्त्वशब्दाद्बुद्धिरिह ॥७॥ अव्यक्तात्तु परः पुरुषो व्यापको व्यापकस्याप्याकाशादेः सर्वस्य कारण- त्वात् । अलिङ्गो लिङ्गयते गम्यते येन तल्लिङ्गं बुद्धयादि तदविद्यमान- मस्येति सोऽयमलिङ्ग एव सर्वसंसारधर्मवर्जित इत्येतत् । यं ज्ञात्वाचार्यंतः शास्त्रतश्च मुच्यते जन्तुराविद्यादिहृदयग्रन्थिभिजवन्नेव पतितेऽपि शरीरेऽ- [ प्रकाशिका ] पृथग्भूतानामुत्पद्यमानानामिन्द्रियाणाम् । इन्द्रियाणा- मित्येतद्देहादीनामप्युपलक्षणम् । उदयास्तमयौ च तत् । यदिति त्वव्ययं यावित्यर्थे । यावुत्पादविनाशौ यश्च परस्परवैलक्षण्यलक्षणपृथग्भावश्च तान्सर्वानिन्द्रियादिगतान्मत्वा धीरो न शोचतत्यिर्थः । परस्परवैलक्षण्योत्पाद- विनाशा ज्ञानैकाकारे नित्य आत्मनि न सन्तीति ज्ञात्वा न शोचतीत्यर्थः ॥६॥ देहाविविक्तप्रत्यगात्मज्ञानेऽपि भगवच्छरणागतिरेवोपाय इति पूर्वोक्ते शरणवरणमेव प्रतिपादयति-इन्द्रियेभ्य इत्येतदर्थानामप्युपलक्षणं “ इन्द्रि येभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः " का० १।३।१० इत्यनेनैका- थयोत् । सत्त्वशब्दो बुद्धिपर " मनसस्तु परा बुद्धिः ' का० १।३।१० इति पूर्वोत्तेः | अलिङ्गो लिङ्गागम्यः । परत्वं च वशीकार्यतायां विवक्षि- तम् । परस्य च वशीकरणं शरणागतिरेव । शिष्टं स्पष्टम् ॥ ७ ॥ ८ ॥