पृष्ठम्:काठकोपनिषत्.djvu/१००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२।३।१ कटकोपनिषत् ७८ उर्ध्वमूलोऽवाक्शाख एषोऽश्वत्थः सनातनः ॥ तदेव शुक्रं तट्रह्म तदेवामृतमुच्यते ॥ तस्मिल्लॅोकाः श्रिताः सर्वे तद् नात्येति कश्चन । एतद्वै तत् ॥ १ ॥ [शांकरभाष्यम्]तूलावधारणेनैव मूलावधारणं वृक्षस्य क्रियते लोके यथैवं संसा- रकार्यवृक्षावधारणेन तन्मूलस्य ब्रह्मणः स्वरूपावदिधारयिषयेयं षष्ठी वल्लयार- भ्यते-उर्ध्वमूल ऊर्ध्व मूलं यत्तद्विष्णोः परमं पद्मस्येति सोऽयमव्यक्तादिस्थाव- रान्तः संसारवृक्ष ऊर्ध्वमूलः । वृक्षश्च ब्रक्ष्चनात् । जन्मजरामरणशोकाद्यनेका- नर्थात्मक प्रतिक्षणमन्यथास्वभावो मायामरीच्युदकगन्धर्वनगरादिवद्दृष्ट- नष्टस्वरूपत्वाद्वसाने च वृक्षवद्भावात्मकः कदलीस्तम्भवन्निःसारोऽनेकशत- पाखण्डबुद्धिविकल्पास्पदस्तत्वविजिज्ञासुभिरनिर्धारितेदंतत्त्वो वेदान्तनिर्धारि- तपरब्रह्ममूलसारोऽविद्याकामकर्माव्यक्तबीजप्रभवोऽपरब्रह्मविज्ञानक्रियाशक्ति- द्वयात्मकहिरण्यगर्भाङ्कुरः सर्वप्राणिलिङ्गभेदस्कन्धतृष्णाजलासेकोद्भूतदर्पो [प्रकाशिका] कविरितिवद्भाति । ब्रह्मणि परिगण्यमाने सूर्यादितेजोऽन्तरं न भाति । अतस्तदेव ब्रह्मातिभास्वररूपशालीति पूर्वार्धार्थः । तदीयदीप्तिसा- क्षात्कारसंभवे तेजोऽन्तराणामभिभूतत्वमिति व्यासार्यवचनस्याप्ययमेवार्थः । अमुमेवार्थमितरतेजसां स्वरूपोत्पत्तौ फलजनने च परमात्मानुग्रहसापेक्षत्व प्रदर्शकेन तमेव भान्तमित्युत्तरार्धेन प्रथयतीति न दोष इत्येतदवगन्तव्यम् । यद्वा पूर्वार्धस्य यथाश्रुत एवार्थः । नन्वतिभास्वररूपवति सूर्यादौ प्रत्यक्षे- णानुभूयमाने न भातीति प्रत्यक्षविरुद्धं कथमभिधीयत इत्यत्राह " तमेव भान्तमनुभाति" इति । इदं च परिदृश्यमानमादित्यादीनां भास्वररूपं न स्वाभाविकमपि तु परमात्मदत्तं तदीयमेव तेजः । गीतं च भगवता --- " यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ” भ. गी. अ. १५।१२ इति विवृत्तं चैतद्भगवता भाष्य- कृता-अखिलजगतो भासकमेतेषामादित्यादीनां यत्तेजस्तन्मदीयं तेजस्तै- राराधितेन मया तेभ्यो दत्तमिति विद्धीति अतो याचितकमण्डितपुरुषतुल्या- नामेतेषां भास्वररूपशालिनांन भातीति व्यपदेशो युज्यत इति भावः ॥ १५॥ द्वितीया वल्ली समाप्ता । अयं च मन्त्रखण्ड ऊर्ध्वमूलमधःशाखमिति गीताव्याख्यानावसरे भगवता भाष्यकृता व्याख्यातः । इत्थं हि तत्र भाष्यम्-यं संसाराख्यम- क्ष्वत्थमूर्ध्वमूलमधःशाखमव्ययमश्वत्थं प्राहुः श्रुतयः । “ ऊर्ध्वमूलोऽवा-