पृष्ठम्:करणप्रकाशः.pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्द्रहणाधिकारः ३७ है आवे प्राचि यथादिशे स्वचलनेऽन्द्वर्विमोक्षादिगे पश्चात् स्पार्शिकमोक्षजेऽन्यदिशिी ज्यघात् क्रमात् प्रार्थयेत॥१५॥ अत्र स्फुटं वलनं त्रिंशदङ्गुलव्यामार्थं परिणतं प्रागेव कृतमतः प्रथमं वृत्तं बलनदानार्थं त्रिंशदङ्गुलव्यासदलन विलिखितं ततो ‘ ग्राह्यार्धमुत्रे ण विधाय वृत्त’ मित्यादिभास्करविधिनेव सर्व कृतमिति स्फुटम् ॥११॥ शिलीमुखस्यात्र ककुप्पदेशाद्यम्याश्च सौम्याश्च समान्यकाष्ठे । मध्यं नयेत् पश्चिमपूर्वकाष्ठे तिग्मद्युतेश्चन्द्रमसोऽन्यथा स्यात् ॥१६॥ शिलीमुखस्य बाणस्य ककुप्प्रदेशादिप्रदेशाद्यास्याढा सम्थात् मध्यं मध्यवलनं समान्यकाण्डे समभिन्नदिक्के क्रमेण पश्चिमपूर्वकाठे प- श्चिमपूर्वाभिमुखे नयेत् प्रापयेत् । तिग्मद्युतेः सूर्यस्यैवमेव ज्ञेयम् । चन्द्र स्य चातोऽन्यथा विपरीतं स्यात् । अर्थात् शरं विपरीतदिक्कं प्रकर्ष्य ततः पूर्ववन्मध्यवलनं देयमित्यर्थः । अत्रोपपत्तिर्भास्करीयपरिलेखलेखनतः ‘शरा यथाशा ग्रहणे खराशः श्चन्द्रग्रहे व्यस्तदिशस्तु वेद्यःइत्यादि वचनतश्च स्फुटा ॥१६॥ वृत्ते द्वितीये वलनाग्रकेन्द्रस्पृक्सूत्रचिह्नात् प्रथमन्यबाणं । केन्द्रान्न्यसेन्मध्यशरं च मध्येऽर्केन्द्वोः स्वकीथान्यदिशि क्रमेण॥१७॥ स्पष्टार्थम् ॥१० ग्राह्यवृत्तेऽथ बाणाऽग्रतः खण्डिते ग्राहकार्धप्रमाणेन सूत्रेण वा । स्पर्शमोक्षौ भवेतां दिशौ लक्ष्यते मध्यमग्राससंस्थानमाकारतः ॥१८॥ स्पष्टार्थस् ॥१८॥ प्राग्ग्रासे बाहुरिन्दोः स्ववलनककुभि प्राचि पश्चात् स मोक्षे केन्द्रात् पूष्णोऽन्यथा स्यात् स्वदिशि दिनपतेः कोटिरिन्दभुजभ्रात्। व्यस्ता मध्यात् प्रसार्य श्रुतिमनृजुगतां कोटिकणप्रयोगाः दिग्रासादिसिद्ध्यै सुमतिरनुलिखेद्धाहकार्धेन वृत्तम, ॥१९॥ स्पष्टार्थम् । उपपतिश्च भास्करपारिलेखात् स्फुटा ॥१९॥