पृष्ठम्:करणप्रकाशः.pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

करणप्रकाशे ३४ स्पष्टार्थम् । उपपात्तश्च ‘ स्थित्यर्धनाडीगुणिता स्वभुक्ति' रित्यादि ना ‘ एवं विमर्दार्धफलोनयुक्तेत्यादिना च भास्करविधिना स्फुटा ॥७॥ तिथ्यन्तमूनमधिकं स्थितिखण्डकाभ्यां प्रग्रासमोक्षसमयं क्रमशो वदन्ति । स्थित्यर्धयोरिह युतिं खलु पर्घकालं मद्र्धसंयुतमदर्शनकालामिन्दोः ॥ ८ ॥ स्पष्टार्थम् । अत्रोपपत्तिः । ‘मध्यग्रहः पर्वविरामकाले' इत्यादिना भास्करोक्तेन स्फुटैव ॥ ८ ॥ अभीष्टहीनस्थितिखण्डनि गत्यन्तरं षष्टि-६०हृतं भुजः स्यात् । तात्कालिकेन्दोरिषुरेव कोर्टिस्तद्वर्गयोगात् पदामिष्टकर्णः ॥ ६ ॥ अत्रोपपत्तिः । “ वन निघ्नाः स्थितिखण्डकेनेत्यादिना भास्क- रोक्तेन तथा ‘ कोटिश्च तत्कालशरोऽथ कोटीदोर्वर्गयोगस्य पदं श्रुतिः स्यादिति भास्करोक्तेनैवेष्टकर्णानयनवासना सुगमैव ॥ ९ ॥ गत्यन्तरे मर्ददलाहते च प्राग्वद्विधेया भुजकोटिकणः । पिधानसन्दर्शनकाळजाः स्युशंसो विकर्णस्तनुयोगखण्डः ॥१०॥ गत्यन्तरे मर्ददलाहते प्राग्वत् षष्टिहृते भुजः स्यात् । तत्कालशरश्च कोटिस्तद्वर्गयोगपदं कर्ण इति प्राग्वद्भुजकोटिकर्णाः साध्याः । पिधानसन्दर्शनकालजाः संमीलनोन्मीलनकालभवाः । तनुयोगखण्डो मोनैक्यार्थ विकर्ण इष्टकर्णरहितस्तदा ग्रास इष्टग्रासो भवतीत्यर्थः । अत्रोपपत्तिः । संमीलनोन्मीलनकाले वीटे स्थितिखण्डे मर्दार्ध एव । अतस्ते एव गत्यन्तरगुणे षटिहृते तत्कालयोभुजौ भवतः । कणनं मानै क्यार्धमिटग्रासो भवतीति सर्वा वासना स्फुटैव ॥ १० ॥ अहर्दलाद्रात्रिलावसानं यावत् कपालं कथयन्ति पूर्वम् । ततो दिनार्धम्तमपूर्वमिन्दोर्भानोर्भवेतां ग्रहणेऽन्यथा ते ॥ ११॥