पृष्ठम्:करणप्रकाशः.pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६ करणप्रकाशे । अथ स्पष्टाधिकारः । रूपाग्नयो नषयमाः शरलोचनानि नन्देदयो दिनकराः श्रुतयः क्रमेण । ज्यार्धान्यमूनि वसुशैललवा इनोउं खेटं मृदुश्चरहितं मृदुकेन्द्रमाहुः १॥ ज्यार्धानि ३१ ।२९।२५।१९।१२४ सूर्यमन्दोघांशाः ७० । स्पष्टार्थम् । अत्रोपपत्तिः । पञ्चदशपञ्चदशभागानां खार्कमितव्यासाचें ज्योत्पत्तिवि धिना जीवाः प्रसाध्य ता अधोऽधो विशोध्य वृत्तपादे रूपाग्नयो नवयमा इत्यादि ज्याद्धनि षट् पठितानि । आर्यभटेन मन्दोचस्यात्यल्पगतित्वात् रविमन्दोच्चभागा ये वसुनगमिताः पठितास्त एव स्वल्पान्तरात् सुस्थिरा एवा चार्येणापि पठिता इति सर्वं स्फुटमेव सिद्धान्तविदामिति ॥ १ ॥ केन्द्रे त्रिभादधिके सति दस्तदेव राशित्रयात् समधिके पतिते भषकात् । षड्भोनिते, षडधिके रहिते भचक्र अन्दाधिके भवति बाहुरिझवशेषम् ॥ २ ॥ अत्रोपपात्तिः । अयुग्मे पदे यातमेष्यं तु युग्म-इत्यादि भास्करविधिना स्फुटैवेति ॥ २ ॥ भागीकृते तत्र शरेन्दु-१६ भक्ते भुक्तज्यका संगुणितेऽवशेषे । भोग्यज्यया वाणशशाङ्क-१५ भक्ते भुक्तज्यका योगयुते भुजज्या ॥ ३ ॥ सष्टार्थम् । ज्यादैभ्यः पठितेभ्यश्चापतो ज्यानयनमनुपातेन स्पष्टमित वासना सिद्धान्तविदां विदितैव किं लेखप्रयासेनेति ॥ ३ ॥